श्लोकः

  • धर्म्यासु कामाऽर्थयशस्करीषु मतासु लोकेऽधिगतासु काले ।
    विद्यासु विद्वानिव सोऽभिरेमे पत्नीषु राजा तिसृषूत्तमासु ।।1.9।।

  • सन्धिविच्छेदः

    धर्म्यासु कामाऽर्थयशस्करीषु मतासु लोके+अधिगतासु काले
    विद्यासु विद्वान्+इव सः+अभिरेमे पत्नीषु राजा तिसृषु+उत्तमासु

    समासविग्रहः

  • कामाऽर्थयशस्करीषु = <<काम-अर्थ-यशस्>Di-करीषु>U = कामश्च अर्थश्च यशश्च कामार्थयशांसि; कामार्थयशांसि कर्तुं शीलं यासां ताः कामार्थयशस्कर्यः, तासु

  • अन्वयः

    सः राजा धर्म्यासु कामाऽर्थयशस्करीषु लोके मतासु काले अधिगतासु तिसृषु उत्तमासु पत्नीषु विद्यासु विद्वान् इव अभिरेमे |

    अन्वयचित्रम्