श्लोकः

  • अन्तर्निविष्टोज्ज्वलरत्नभासो गवाक्षजालैरभिनिष्पतन्त्यः ।
    हिमाऽद्रिटङ्कादिव भान्ति यस्यां गङ्गाऽम्बुपातप्रतिमा गृहेभ्यः ।।1.8।।

  • सन्धिविच्छेदः

    अन्तर्निविष्टोज्ज्वलरत्नभासः+ गवाक्षजालैः+अभिनिष्पतन्त्यः
    हिमाऽद्रिटङ्कात्+इव भान्ति यस्यां गङ्गाऽम्बुपातप्रतिमा गृहेभ्यः

    समासविग्रहः

  • अन्तर्निविष्टोज्ज्वलरत्नभासः = <<<अन्तर्-निविष्ट>S-<उज्ज्वल-रत्न>K1>K1-भासः>T6 = अन्तः निविष्टानि अन्तर्निविष्टानि; उज्ज्वलानि च तानि रत्नानि उज्ज्वलरत्नानि; अन्तर्निविष्टानि च तानि उज्ज्वलरत्नानि अन्तर्निविष्टोज्ज्वलरत्नानि; तेषां भासः अन्तर्निविष्टोज्ज्वलरत्नभासः
  • गवाक्षजालैः = <<गो-अक्ष>T6-जालैः>T6 = गवाम् अक्षिणी इव गवाक्षाः; तेषां जालानि गवाक्षजालानि, तैः
  • हिमाऽद्रिटङ्कात् = <<हिम-अद्रि>T6-टङ्कात्>T6 = हिमस्य अद्रिः हिमाद्रिः; हिमाद्रेः टङ्कः हिमाद्रिटङ्कः, तस्मात्
  • गङ्गाऽम्बुपातप्रतिमा = <<गङ्गा-अम्बु>T6-पात>T6-प्रतिमा>T3 = गङ्गायाः अम्बूनि गङ्गाम्बूनि; तेषां पाताः गङ्गाम्बुपाताः; तैः प्रतिमाः (तुल्याः) गङ्गाम्बुपातप्रतिमाः

  • अन्वयः

    यस्याम् अन्तर्निविष्टोज्ज्वलरत्नभासः गृहेभ्यः गवाक्षजालैः अभिनिष्पतन्त्यः हिमाऽद्रिटङ्कात् गङ्गाऽम्बुपातप्रतिमा इव भान्ति (ताम् अध्यास्त)

    अन्वयचित्रम्