सन्धिविच्छेदः
सद्रत्नमुक्ताफलवज्रभाञ्जि विचित्रधातूनि सकाननानि
स्त्रीभिः+युतानि+अप्सरसाम्+इव+ओघैः+मेरोः शिरांसि+इव गृहाणि यस्याम्
समासविग्रहः
सद्रत्नमुक्ताफलवज्रभाञ्जि = <<सत्-<रत्न-<मुक्ता-फल>K5-वज्र>Di>U-भाञ्जि>U = मुक्ताः फलानि इव मुक्ताफलानि; रत्नानि च मुक्ताफलानि च वज्राणि रत्नमुक्ताफलवज्राणि; सन्ति च तानि रत्नमुक्ताफलवज्राणि सद्रत्नमुक्ताफलवज्राणि; तानि भजन्ते इति सद्रत्नमुक्ताफलवज्रभाञ्जि
विचित्रधातूनि = <विचित्र-धातूनि>Bs7 = विचित्रा धातवो येषु तानि
सकाननानि = <स-काननानि>BvS = काननैः सहितानि
अन्वयः
यस्यां सद्रत्नमुक्ताफलवज्रभाञ्जि विचित्रधातूनि सकाननानि अप्सरसाम् ओघैः इव स्त्रीभिः युतानि गृहाणि मेरोः शिरांसि इव (आसन्, तामध्यास्त)
अन्वयचित्रम्