श्लोकः

  • स पुण्यकीर्तिः शतमन्युकल्पो महेन्द्रलोकप्रतिमां समृद्ध्या ।
    अध्यास्त सर्वर्तुसुखामयोध्यामध्यासितां ब्रह्मभिरिद्धबोधैः ।।1.5।।

  • सन्धिविच्छेदः

    सः+पुण्यकीर्तिः शतमन्युकल्पः+ महेन्द्रलोकप्रतिमां समृद्ध्या
    अध्यास्त सर्वर्तुसुखाम्+अयोध्याम्+अध्यासितां ब्रह्मभिः+इद्धबोधैः

    समासविग्रहः

  • पुण्यकीर्तिः = <पुण्य-कीर्तिः>Bs6 = पुण्या कीर्तिः यस्य सः
  • शतमन्युकल्पः = <<शत-मन्यु>Bs6-कल्पः>? = शतं मन्यवो यस्य सः शतमन्युः; ईषदसमाप्तः शतमन्युः शतमन्युकल्पः
  • महेन्द्रलोकप्रतिमां = <<<महत्-इन्द्र>K1-लोक>T6-प्रतिमाम्>T3 = महान् च असौ इन्द्रः महेन्द्रः ; महेन्द्रस्य लोकः महेन्द्रलोकः ; महेन्द्रलोकेन प्रतिमा, ताम्
  • समृद्ध्या = <सम्-ऋद्ध्या>Tg = सम्यक् ऋद्धिः समृद्धिः, तया
  • सर्वर्तुसुखाम् = <<सर्व-ऋतु>K1-सुखाम्>T7 = सर्वे च ते ऋतवः सर्वर्तवः; सर्वर्तुषु सुखा, ताम्
  • इद्धबोधैः = <इद्ध-बोधैः>Bs6 = इद्धः बोधः येषां ते, तैः

  • अन्वयः

    पुण्यकीर्तिः शतमन्युकल्पः सः समृद्ध्या महेन्द्रलोकप्रतिमां सर्वर्तुसुखाम् इद्धबोधैः ब्रह्मभिः अध्यासितां अयोध्याम् अध्यास्त |

    अन्वयचित्रम्