श्लोकः

  • पुण्यो महाब्रह्मसमूहजुष्टः सन्तर्पणो नाकसदां वरेण्यः ।
    जज्वाल लोकस्थितये स राजा यथाऽध्वरे वह्निरभिप्रणीतः ।।1.4।।

  • सन्धिविच्छेदः

    पुण्यः+ महाब्रह्मसमूहजुष्टः सन्तर्पणः+ नाकसदां वरेण्यः
    जज्वाल लोकस्थितये सः+राजा यथा+अध्वरे वह्निः+अभिप्रणीतः

    समासविग्रहः

  • महाब्रह्मसमूहजुष्टः = <<<महत्-ब्रह्म>K1-समूह>T6-जुष्टः>T3 = महान्तश्च ते ब्रह्माणः महाब्रह्माणः ; महाब्रह्मणां समूहः महाब्रह्मसमूहः ; महाब्रह्मसमूहेन जुष्टः महाब्रह्मसमूहजुष्टः
  • नाकसदां = <नाक-सदां>U = नाके सीदन्तीति नाकसदः, तेषाम्
  • लोकस्थितये = <लोक-स्थितये>T6 = लोकस्य स्थितिः लोकस्थितिः , तस्यै

  • अन्वयः

    पुण्यः महाब्रह्मसमूहजुष्टः नाकसदां सन्तर्पणः वरेण्यः सः राजा अध्वरे अभिप्रणीतः वह्निः यथा लोकस्थितये जज्वाल ।

    अन्वयचित्रम्