श्लोकः

  • अथ जगदुरनीचैराशिषस्तस्य विप्रास्तुमुलकलनिनादं तूर्यमाजघ्नुरन्ये ।
    अभिमतफलशंसी चारु पुस्फोर बाहुस्तरुषु चुकुवुरुच्चैः पक्षिणश्चाऽनुकूलाः ।।1.27।।

  • सन्धिविच्छेदः

    अथ जगदुः+अनीचैः+आशिषः+तस्य विप्राः+तुमुलकलनिनादं तूर्यम्+आजघ्नुः+अन्ये
    अभिमतफलशंसी चारु पुस्फोर बाहुः+तरुषु चुकुवुः+उच्चैः पक्षिणः+च+अनुकूलाः

    समासविग्रहः

  • अनीचैः = <अ-नीचैः>Tn = न नीचैः
  • तुमुलकलनिनादं = <<तुमुल-कल>K1-निनादम्>Bs7 = तुमुलः चासौ कलः तुमुलकलः; तुमुलकलः निनादो यस्मिन् कर्मणि तद्
  • अभिमतफलशंसी = <<अभिमत-फल>K1-शंसी>U = अभिमतं च तत् फलम् अभिमतफलम्, तत् शंसतीति

  • अन्वयः

    अथ विप्राः तस्य आशिषः अनीचैः जगदुः, अन्ये तुमुलकलनिनादं तूर्यम् आजघ्नुः, अभिमतफलशंसी बाहुः चारु पुस्फोर, तरुषु अनुकूलाः पक्षिणः च उच्चैः चुकुवुः |

    अन्वयचित्रम्