सन्धिविच्छेदः
इषुमति रघुसिंहे दन्दशूकान्+जिघांसौ धनुः+अरिभिः+असह्यं मुष्टिपीडं दधाने
व्रजति पुरतरुण्यः+ बद्धचित्राऽङ्गुलित्रे कथम्+अपि गुरुशोकाः+ मा रुदन्+माङ्गलिक्यः
समासविग्रहः
रघुसिंहे = <रघु-सिंहे>T7 = रघुषु सिंहः रघुसिंहः, तस्मिन्
असह्यं = <अ-सह्यं>Tn = न सह्यम्
मुष्टिपीडं = <मुष्टि-पीडं>Bv = मुष्ट्या मुष्टिना वा पीडा यस्मिन् कर्मणि तद् यथा तथा
पुरतरुण्यः = <पुर-तरुण्यः>T6 = पुरस्य तरुण्यः
बद्धचित्राऽङ्गुलित्रे = <बद्ध-<चित्र-<अङ्गुलि-त्रे>U>K1>Bs3 = अङ्गुलिं त्रायते इति अङ्गुलित्रम्; चित्रं च तत् अङ्गुलित्रं चित्राङ्गुलित्रम् ; बद्धं चित्रम् अङ्गुलित्रं येन सः बद्धचित्राङ्गुलित्रः, तस्मिन्
गुरुशोकाः = <गुरु-शोकाः>Bs6 = गुरुः शोको यासां ताः
अन्वयः
दन्दशूकान् जिघांसौ इषुमति अरिभिः असह्यं धनुः मुष्टिपीडं दधाने बद्धचित्राऽङ्गुलित्रे रघुसिंहे व्रजति गुरुशोकाः पुरतरुण्यः माङ्गलिक्यः कथमपि मा रुदन् ।
अन्वयचित्रम्