सन्धिविच्छेदः
प्रयास्यतः पुण्यवनाय जिष्णोः+ रामस्य रोचिष्णुमुखस्य धृष्णुः
त्रैमातुरः कृत्स्नजितास्त्रशस्त्रः सध्र्यङ्+रतः श्रेयसि लक्ष्मणः+अभूत्
समासविग्रहः
पुण्यवनाय = <पुण्य-वनाय>K1 = पुण्यं च तत् वनम् पुण्यवनम्, तस्मै
रोचिष्णुमुखस्य = <रोचिष्णु-मुखस्य>Bs6 = रोचिष्णु मुखं यस्य सः रोचिष्णुमुखः, तस्य
त्रैमातुरः = <त्रै-मातुरः>Tdt = त्रयाणां मातॄणाम् अपत्यम्
कृत्स्नजितास्त्रशस्त्रः = <<कृत्स्न-जित>S-<अस्त्र-शस्त्रः>Di>Bs3 = कृत्स्नं जितानि इति कृत्स्नजितानि; अस्त्राणि च शस्त्राणि च अस्त्रशस्त्राणि; कृत्स्नजितानि अस्त्रशस्त्राणि येन सः कृत्स्नजितास्त्रशस्त्रः
अन्वयः
धृष्णुः कृत्स्नजितास्त्रशस्त्रः श्रेयसि रतः त्रैमातुरः लक्ष्मणः पुण्यवनाय प्रयास्यतः जिष्णोः रोचिष्णुमुखस्य रामस्य सध्र्यङ् अभूत् |
अन्वयचित्रम्