श्लोकः

  • आशीर्भिरभ्यर्च्य मुनिः क्षितीन्द्रं प्रीतः प्रतस्थे मुनिराश्रमाय ।
    तं पृष्ठतः प्रष्ठमियाय नम्रो हिंस्रेषुदीप्ताऽऽप्तधनुः कुमारः ।।1.24।।

  • सन्धिविच्छेदः

    आशीर्भिः+अभ्यर्च्य मुनिः क्षितीन्द्रं प्रीतः प्रतस्थे मुनिः+आश्रमाय
    तं पृष्ठतः प्रष्ठम्+इयाय नम्रः+ हिंस्रेषुदीप्ताऽऽप्तधनुः कुमारः

    समासविग्रहः

  • क्षितीन्द्रं = <क्षिति-इन्द्रं>T6 = क्षितेः इन्द्रः क्षितीन्द्रः, तम्
  • हिंस्रेषुदीप्ताऽऽप्तधनुः = <<<हिंस्र-इषु>K1-दीप्त>T3-<आप्त-धनुः>K1>Bs6 = (हिंसनशीलाः) हिंस्राः च ते इषवः हिंस्रेषवः; तैर्दीप्तं हिस्रेषुदीप्तं; तत् आप्तं च धनुः यस्य सः

  • अन्वयः

    मुनिः प्रीतः आशीर्भिः क्षितीन्द्रम् अभ्यर्च्य आश्रमाय प्रतस्थे, नम्रः हिंस्रेषुदीप्ताऽऽप्तधनुः कुमारः प्रष्ठं तं पृष्ठतः इयाय ।

    अन्वयचित्रम्