श्लोकः

  • घानिष्यते तेन महान्विपक्षः स्थायिष्यते येन रणे पुरस्तात् ।
    मा मां महात्मन् परिभूरयोग्ये न मद्विधो न्यस्यति भारमग्र्यम् ।।1.22।।

  • सन्धिविच्छेदः

    घानिष्यते तेन महान्+विपक्षः स्थायिष्यते येन रणे पुरस्तात्
    मा मां महात्मन् परिभूः+अयोग्ये न मद्विधः+ न्यस्यति भारम्+अग्र्यम्

    समासविग्रहः

  • विपक्षः = <वि-पक्षः>Tp = विरुद्धः पक्षः
  • महात्मन् = <महत्-आत्मन्>Bs6 = महान् आत्मा (स्वभावः) यस्य सः, हे महात्मन्
  • अयोग्ये = <अ-योग्ये>Tn = न योग्यः अयोग्यः, तस्मिन्
  • मद्विधः = <मद्-विधः>BvU = मम इव विधा (सादृश्यं) यस्य सः

  • अन्वयः

    येन (रामेण) रणे पुरस्तात् स्थायिष्यते, तेन महान् विपक्षः घानिष्यते । (हे) महात्मन् ! मां मा परिभूः, मद्विधः अयोग्ये अग्र्यं भारं न न्यस्यति ।

    अन्वयचित्रम्