श्लोकः

  • मया त्वमाप्थाः शरणं भयेषु वयं त्वयाऽऽप्याप्स्महि धर्मवृद्ध्यै ।
    क्षात्रं द्विजत्वं च परस्पराऽर्थं शङ्कां कृथा मा, प्रहिणु स्वसूनुम् ।।1.21।।

  • सन्धिविच्छेदः

    मया त्वम्+आप्थाः शरणं भयेषु वयं त्वया+अपि+आप्स्महि धर्मवृद्ध्यै
    क्षात्रं द्विजत्वं च परस्पराऽर्थं शङ्कां कृथाः+ मा, प्रहिणु स्वसूनुम्

    समासविग्रहः

  • धर्मवृद्ध्यै = <धर्म-वृद्धयै>T6 = धर्मस्य वृद्धिः धर्मवृद्धिः, तस्यै
  • परस्पराऽर्थं = <परस्पर-अर्थम्>T4 = परस्पराय इदम् परस्पराऽर्थम्
  • स्वसूनुम् = <स्व-सूनुम्>T6 = स्वस्य सूनुः स्वसूनुः, तम्

  • अन्वयः

    (हे राजन्!) भयेषु (धर्मेषु) धर्मवृद्ध्यै मया त्वम् शरणम् आप्थाः , त्वया अपि वयं (धर्मवृद्ध्यै) शरणं आप्स्महि | क्षात्रं द्विजत्वं च परस्पराऽर्थं | शङ्कां मा कृथाः ,स्वसूनुम् प्रहिणु |

    अन्वयचित्रम्