श्लोकः

  • स शुश्रुवांस्तद्वचनं मुमोह राजाऽसहिष्णुः सुतविप्रयोगम् ।
    अहंयुनाऽथ क्षितिपः शुभंयुरूचे वचस्तापसकुञ्जरेण ।।1.20।।

  • सन्धिविच्छेदः

    सः+ शुश्रुवान्+तद्वचनं मुमोह राजा+असहिष्णुः सुतविप्रयोगम्
    अहंयुना+अथ क्षितिपः शुभंयुः+ऊचे वचः+तापसकुञ्जरेण

    समासविग्रहः

  • तद्वचनं = <तद्-वचनं>T6 = तस्य वचनम्
  • असहिष्णुः = <अ-सहिष्णुः>Tn = न सहिष्णुः
  • सुतविप्रयोगम् = <सुत-विप्रयोगम्>T6 = सुतेन विप्रयोगः सुतविप्रयोगः, तम्
  • क्षितिपः = <क्षिति-पः>U = क्षितिं पातीति क्षितिपः
  • तापसकुञ्जरेण = <तापस-कुञ्जरेण>K2 = तापसः चासौ कुञ्जरः तापसकुञ्जरः, तेन

  • अन्वयः

    सुतविप्रयोगम् असहिष्णुः सः राजा तद्वचनं शुश्रुवान् (सन्) मुमोह । अथ अहंयुना तापसकुञ्जरेण शुभंयुः क्षितिपः वचः ऊचे ।

    अन्वयचित्रम्