श्लोकः

  • सोऽध्यैष्ट वेदांस्त्रिदशानयष्ट पितॄनपारीत्सममंस्त बन्धून् ।
    व्यजेष्ट षड्वर्गमरंस्त नीतौ समूलघातं न्यवधीदरींश्च ।।1.2।।

  • सन्धिविच्छेदः

    सः+अध्यैष्ट वेदान्+त्रिदशान्+अयष्ट पितॄन्+अपारीत्+सममंस्त बन्धून्
    व्यजेष्ट षड्वर्गम्+अरंस्त नीतौ समूलघातं न्यवधीत्+अरीन्+च

    समासविग्रहः

  • त्रिदशान् = <त्रि-दशान्>Bs6 = तिस्रः दशाः येषां ते त्रिदशाः, तान्
  • षड्वर्गम् = <षड्-वर्गम्>T6 = षण्णां वर्गः षड्वर्गः, तम्
  • समूलघातं = <<स-मूल>BvS-घातं>U = मूलेन सहिताः समूलाः ; समूलान् (शत्रून्) हत्वा, समूलघातम्

  • अन्वयः

    सः वेदान् अध्यैष्ट, त्रिदशान् अयष्ट, पितॄन् अपारीत्, बन्धून् सममंस्त, षड्वर्गं व्यजेष्ट, नीतौ अरंस्त, अरीन् च समूलघातं न्यवधीत् ।

    अन्वयचित्रम्