श्लोकः

  • आख्यन्मुनिस्तस्य शिवं समाधेर्विघ्नन्ति रक्षांसि वने क्रतूंश्च ।
    तानि द्विषद्वीर्यनिराकरिष्णुस्तृणेढु रामः सह लक्ष्मणेन ।।1.19।।

  • सन्धिविच्छेदः

    आख्यत्+मुनिः+तस्य शिवं समाधेः+विघ्नन्ति रक्षांसि वने क्रतून्+च
    तानि द्विषद्वीर्यनिराकरिष्णुः+तृणेढु रामः सह लक्ष्मणेन

    समासविग्रहः

  • द्विषद्वीर्यनिराकरिष्णुः = <<द्विषत्-वीर्यम्>T6-निराकरिष्णुः>T6 = द्विषतां वीर्यं द्विषद्वीर्यम् ; द्विषद्वीर्यस्य निराकरिष्णुः द्विषद्वीर्यनिराकरिष्णुः

  • अन्वयः

    मुनिः तस्य समाधेः शिवम् आख्यत् | 'वने रक्षांसि क्रतून् च विघ्नन्ति - द्विषद्वीर्यनिराकरिष्णुः रामः लक्ष्मणेन सह तानि तृणेढु |' (इति च आख्यत् ) |

    अन्वयचित्रम्