सन्धिविच्छेदः
ऐषीः पुनर्जन्मजयाय यत्+त्वं रूपादिबोधात्+न्यवृतत्+च यत्+ते
तत्त्वानि+अबुद्धाः प्रतनूनि येन ध्यानं नृपः+तत्+शिवम्+इति+अवादीत्
समासविग्रहः
पुनर्जन्मजयाय = <पुनर्जन्म-जयाय>T6 = पुनर्जन्मनः जयः पुनर्जन्मजयः , तस्मै
रूपादिबोधात् = <<रूप-आदि>Bs6-बोधात्>T6 = रूपम् आदिः येषां ते रूपादयः (विषयाः); तेषां बोधः रूपादिबोधः, तस्मात्
अन्वयः
त्वं पुनर्जन्मजयाय यत् (ध्यानम्) ऐषीः, ते यत् च (ध्यानम्) रूपादिबोधात् न्यवृतत् । (त्वम्) येन (ध्यानेन) प्रतनूनि तत्त्वानि अबुद्धाः, तत् ध्यानं शिवम् ? इति नृपः अवादीत् ।
अन्वयचित्रम्