श्लोकः

  • ततोऽभ्यगाद् गाधिसुतः क्षितीन्द्रं रक्षोभिरभ्याहतकर्मवृत्तिः ।
    रामं वरीतुं परिरक्षणाऽर्थं राजाऽऽर्जिहत्तं मधुपर्कपाणिः ।।1.17।।

  • सन्धिविच्छेदः

    ततः+अभ्यगात्+ गाधिसुतः क्षितीन्द्रं रक्षोभिः+अभ्याहतकर्मवृत्तिः
    रामं वरीतुं परिरक्षणाऽर्थं राजा+आर्जिहत्+तं मधुपर्कपाणिः

    समासविग्रहः

  • गाधिसुतः = <गाधि-सुतः>T6 = गाधेः सुतः गाधिसुतः
  • क्षितीन्द्रं = <क्षिति-इन्द्रम्>T6 = क्षितेः इन्द्रः क्षितीन्द्रः, तम्
  • अभ्याहतकर्मवृत्तिः =<अभ्याहत-<कर्म-वृत्तिः>T6>Bs6 = कर्मणः वृत्तिः कर्मवृत्तिः; अभ्याहता कर्मवृत्तिः यस्य सः अभ्याहतकर्मवृत्तिः
  • परिरक्षणाऽर्थं = <परिरक्षण-अर्थम्>T4 = परिरक्षणाय इदम् परिरक्षणाऽर्थम्
  • मधुपर्कपाणिः = <मधुपर्क-पाणिः>Bv = मधुपर्कः पाणौ यस्य सः मधुपर्कपाणिः

  • अन्वयः

    ततः गाधिसुतः रक्षोभिः अभ्याहतकर्मवृत्तिः (सन्) परिरक्षणाऽर्थं रामं वरीतुं क्षितीन्द्रम् अभ्यगात् | राजा मधुपर्कपाणिः (सन्) तम् आर्जिहत् |

    अन्वयचित्रम्