श्लोकः

  • आर्चीद् द्विजातीन्परमाऽर्थविन्दानुदेजयान्भूतगणान्न्यषेधीत् ।
    विद्वानुपानेष्ट च तान् स्वकाले यतिर्वशिष्ठो यमिनां वरिष्ठः ।।1.15।।

  • सन्धिविच्छेदः

    आर्चीत्+ द्विजातीन्+परमाऽर्थविन्दान्+उदेजयान्+भूतगणान्+न्यषेधीत्
    विद्वान्+उपानेष्ट च तान् स्वकाले यतिः+वशिष्ठः+ यमिनां वरिष्ठः

    समासविग्रहः

  • द्विजातीन् = <द्वि-जातीन्>Bs6 = द्वे जाती येषां ते द्विजातयः, तान्
  • परमाऽर्थविन्दान् = <<परम-अर्थः>K1-विन्दान्>T6 = परमश्चासौ अर्थः परमार्थः; परमार्थस्य विन्दाः परमार्थविन्दाः, तान्
  • भूतगणान् = <भूत-गणान्>T6 = भूतानां गणा भूतगणाः, तान्

  • अन्वयः

    यमिनां वरिष्ठः विद्वान् यतिः वशिष्ठः परमाऽर्थविन्दान् द्विजातीन् आर्चीत्, उदेजयान् भूतगणान् न्यषेधीत्, स्वकाले तान् उपानेष्ट च |

    अन्वयचित्रम्