श्लोकः

  • कौसल्ययाऽसावि सुखेन रामः प्राक्केकयीतो भरतस्ततोऽभूत् ।
    प्रासोष्ट शत्रुघ्नमुदारचेष्टमेका सुमित्रा सह लक्ष्मणेन ।।1.14।।

  • सन्धिविच्छेदः

    कौसल्यया+असावि सुखेन रामः प्राक्+केकयीतः+ भरतः+ततः+अभूत्
    प्रासोष्ट शत्रुघ्नम्+उदारचेष्टम्+एका सुमित्रा सह लक्ष्मणेन

    समासविग्रहः

  • उदारचेष्टम् = <उदार-चेष्टम्>Bs6 = उदारा चेष्टा यस्य सः उदारचेष्टः , तम्

  • अन्वयः

    प्राक् कौसल्यया रामः सुखेन असावि, ततः केकयीतः भरतः अभूत् । एका सुमित्रा लक्ष्मणेन सह उदारचेष्टं शत्रुघ्नं प्रासोष्ट ।

    अन्वयचित्रम्