श्लोकः

  • निष्ठां गते दत्त्रिमसभ्यतोषे विहित्रिमे कर्मणि राजपत्न्यः ।
    प्राशुर्हुतोच्छिष्टमुदारवंश्यास्तिस्रः प्रसोतुं चतुरः सुपुत्रान् ।।1.13।।

  • सन्धिविच्छेदः

    निष्ठां गते दत्त्रिमसभ्यतोषे विहित्रिमे कर्मणि राजपत्न्यः
    प्राशुः+हुतोच्छिष्टम्+उदारवंश्याः+तिस्रः प्रसोतुं चतुरः सुपुत्रान्

    समासविग्रहः

  • दत्त्रिमसभ्यतोषे = <दत्त्रिम-<सभ्य-तोषे>T6>Bs7 = सभ्यानां तोषः सभ्यतोषः; दत्त्रिमः सभ्यतोषः यस्मिन् तत् दत्त्रिमसभ्यतोषम्, तस्मिन्
  • राजपत्न्यः = <राज-पत्न्यः>T6 = राज्ञः पत्नी राजपत्नी, ताः
  • हुतोच्छिष्टम् = <हुत-उच्छिष्टम्>T6 = हुतस्य उच्छिष्टम्
  • उदारवंश्याः = <उदार-वंश्याः>K1 = उदारः चासौ वंशः, तस्मिन् साध्व्यः उदारवंश्याः
  • सुपुत्रान् = <सु-पुत्रान्>Tp = शोभनाः पुत्राः सुपुत्राः, तान्

  • अन्वयः

    दत्त्रिमसभ्यतोषे विहित्रिमे कर्मणि निष्ठां गते (सति) उदारवंश्याः तिस्रः राजपत्न्यः चतुरः सुपुत्रान् प्रसोतुं हुतोच्छिष्टम् प्राशुः |

    अन्वयचित्रम्