श्लोकः

  • रक्षांसि वेदीं परितो निरास्थदङ्गान्ययाक्षीदभितः प्रधानम् ।
    शेषाण्यहौषीत् सुतसम्पदे च वरं वरेण्यो नृपतेरमार्गीत् ।।1.12।।

  • सन्धिविच्छेदः

    रक्षांसि वेदीं परितः+ निरास्थत्+अङ्गानि+अयाक्षीत्+अभितः प्रधानम्
    शेषाणि+अहौषीत् सुतसम्पदे च वरं वरेण्यः+ नृपतेः+अमार्गीत्

    समासविग्रहः

  • सुतसम्पदे = <सुत-सम्पदे>T6 = सुतानां सम्पत् सुतसम्पत् , तस्यै
  • नृपतेः = <नृ-पतेः>T6 = नॄणां पतिः नृपतिः , तस्य

  • अन्वयः

    वरेण्यः (सः) वेदीं परितः रक्षांसि निरास्थत्, प्रधानम् अभितः अङ्गानि अयाक्षीत् , शेषाणि अहौषीत्, नृपतेः सुतसम्पदे वरं च अमार्गीत् ।

    अन्वयचित्रम्