सन्धिविच्छेदः
ऐहिष्ट तं कारयितुं कृताऽऽत्मा क्रतुं नृपः पुत्रफलं मुनीन्द्रम्
ज्ञाताऽऽशयः+तस्य ततः+ व्यतानीत् सः+ कर्मठः कर्म सुताऽनुबन्धम्
समासविग्रहः
कृताऽऽत्मा = <कृत-आत्मा>Bs3 = कृत आत्मा (यत्नः) येन सः
पुत्रफलं = <पुत्र-फलम्>Bs6 = पुत्रः फलं यस्य पुत्रफलम्, तम्
मुनीन्द्रम् = <मुनि-इन्द्रम्>T7 = मुनिषु इन्द्रः मुनीन्द्रः, तम्
ज्ञाताऽऽशयः = <ज्ञात-आशयः>Bs3 = ज्ञातः आशयो येन सः
सुताऽनुबन्धम् = <सुत-अनुबन्धम्>U = सुतान् अनुबध्नाति इति सुतानुबन्धम्, तत्
अन्वयः
कृताऽऽत्मा नृपः तं मुनीन्द्रं पुत्रफलं क्रतुं कारयितुम् ऐहिष्ट ततः ज्ञाताऽऽशयः सः कर्मठः तस्य सुताऽनुबन्धं कर्म व्यतानीत् |
अन्वयचित्रम्