श्लोकः

  • पुत्रीयता तेन वराऽङ्गनाभिरानायि विद्वान् क्रतुषु क्रियावान् ।
    विपक्त्रिमज्ञानगतिर्मनस्वी मान्यो मुनिः स्वां पुरमृष्यशृङ्गः ।।1.10।।

  • सन्धिविच्छेदः

    पुत्रीयता तेन वराऽङ्गनाभिः+आनायि विद्वान् क्रतुषु क्रियावान्
    विपक्त्रिमज्ञानगतिः+मनस्वी मान्यः+ मुनिः स्वां पुरम्+ऋष्यशृङ्गः

    समासविग्रहः

  • वराऽङ्गनाभिः = <वरा-अङ्गनाभिः>K1 = वराश्च ताः अङ्गनाः वराङ्गनाः, ताभिः
  • विपक्त्रिमज्ञानगतिः = <विपक्त्रिम-<ज्ञान-गतिः>T6>Bs6 = ज्ञानस्य गतिः ज्ञानगतिः; विपक्त्रिमा ज्ञानगतिः यस्य सः

  • अन्वयः

    पुत्रीयता तेन वराऽङ्गनाभिः विद्वान् क्रतुषु क्रियावान् विपक्त्रिमज्ञानगतिः मनस्वी मान्यः ऋष्यशृङ्गः मुनिः स्वां पुरम् आनायि ।

    अन्वयचित्रम्