श्लोकः

  • अभून्नृपो विबुधसखः परन्तपः श्रुताऽन्वितो दशरथ इत्युदाहृतः ।
    गुणैर्वरं भुवनहितच्छलेन यं सनातनः पितरमुपागमत् स्वयम् ।।1.1।।

  • सन्धिविच्छेदः

    अभूत्+नृपः+ विबुधसखः परन्तपः श्रुताऽन्वितः+ दशरथः+ इति+उदाहृतः
    गुणैः+वरं भुवनहितच्छलेन यं सनातनः पितरम्+उपागमत् स्वयम्

    समासविग्रहः

  • विबुधसखः = <विबुध-सखः>T6 = विबुधानां सखः
  • परन्तपः = <परम्-तपः>U = परान् तापयति इति
  • श्रुताऽन्वितः = <श्रुत-अन्वितः>T3 = श्रुतैः अन्वितः
  • भुवनहितच्छलेन = <<भुवन-हित>T4-छलेन>Tm = भुवनेभ्यो हितम्, भुवनहितम्; भुवनहितमेव छलम्, भुवनहितच्छलम्, तेन

  • अन्वयः

    विबुधसखः परन्तपः श्रुताऽन्वितः दशरथः इति उदाहृतः नृपः अभूत् | सनातनः भुवनहितच्छलेन गुणैः वरं यं पितरं स्वयम् उपागमत् |

    अन्वयचित्रम्