आयुस्संस्कृतम्
|
सूत्रस्थानम् | ||
आयुष्कामीयः अध्यायः | ||
श्लोकः | पदच्छेदः | |
1-1-1 | ||
रागादिरोगान् सततानुषक्तान् अशेषकायप्रसृतानशेषान्। औत्सुक्यमोहाऽरतिदाञ्जघान योऽपूर्ववैद्याय नमोऽस्तु तस्मै॥1॥ |
रागादिरोगान् सततानुषक्तान् अशेषकायप्रसृतान् अशेषान्। औत्सुक्यमोहारतिदान् + जघान यः + अपूर्ववैद्याय नमः + अस्तु तस्मै ॥1॥ | |
अन्वयः सततानुषक्तान् अशेषकायप्रसृतान् औत्सुक्यमोहारतिदान् अशेषान् रागादिरोगान् यः जघान तस्मै अपूर्ववैद्याय नमः अस्तु। | ||
1-1-1-2 | ||
आयुः कामयमानेन धर्मार्थसुखसाधनम्। आयुर्वेदोपदेशेषु विधेयः परमादरः॥2॥ |
आयुः कामयमानेन धर्मार्थसुखसाधनम्। आयुर्वेदोपदेशेषु विधेयः परमादरः ॥2॥ | |
अन्वयः धर्मार्थसुखसाधनम् आयुः कामयमानेन आयुर्वेदोपदेशेषु परमादरः विधेयः। | ||
1-1-1-3, 1-1-1-4-1।2 | ||
ब्रह्मा स्मृत्वाऽऽयुषो वेदं प्रजापतिमजिग्रहत्। सोऽश्विनौ तौ सहस्राक्षं सोऽत्रिपुत्रादिकान्मुनीन्॥3॥ तेऽग्निवेशादिकांस्ते तु पृथक् तन्त्राणि तेनिरे। |
ब्रह्मा स्मृत्वा + आयुषः + वेदं प्रजापतिम् + अजिग्रहत्। सः + अश्विनौ तौ सहस्राक्षं सः + अत्रिपुत्रादिकान् + मुनीन् ॥3॥ ते + अग्निवेशादिकान् + ते तु पृथक् तन्त्राणि तेनिरे। | |
अन्वयः ब्रह्मा आयुषः वेदं स्मृत्वा प्रजापतिम् अजिग्रहत्। सः अश्विनौ, तौ सहस्राक्षं, सः अत्रिपुत्रादिकान् मुनीन्, ते अग्निवेशादिकान्, ते तु पृथक् तन्त्राणि तेनिरे। | ||
1-1-1-4, 1-1-1-5 | ||
तेभ्योऽतिविप्रकीर्णेभ्यः प्रायः सारतरोच्चयः॥4॥ क्रियतेऽष्टाङ्गहृदयं नातिसंक्षेपविस्तरम्। |
तेभ्यः + अतिविप्रकीर्णेभ्यः प्रायः सारतरोच्चयः ॥4॥ क्रियते + अष्टाङ्गहृदयं न + अतिसंक्षेपविस्तरम्। | |
अन्वयः अतिविप्रकीर्णेभ्यः तेभ्यः प्रायः सारतरोच्चयः न अतिसंक्षेपविस्तरम् अष्टाङ्गहृदयं क्रियते। | ||
1-1-5, 1-1-6-1।2 | ||
कायबालग्रहोर्ध्वाङ्गशल्यदंष्ट्राजरावृषान्॥5॥ अष्टावङ्गानि तस्याहुश्चिकित्सा येषु संश्रिता। |
कायबालग्रहोर्ध्वाङ्गशल्यदंष्ट्राजरावृषान् ॥5॥ अष्टौ + अङ्गानि तस्य + आहुः + चिकित्सा येषु संश्रिता। | |
अन्वयः कायबालग्रहोर्ध्वाङ्गशल्यदंष्ट्राजरावृषान् अष्टौ अङ्गनि तस्य आहुः चिकित्सा येषु संश्रिता। | ||
1-1-6, 1-1-7-1।2 | ||
वायुः पित्तं कफश्चेति त्रयो दोषाः समासतः॥6॥ विकृताविकृता देहं घ्नन्ति ते वर्तयन्ति च। |
वायुः पित्तं कफः + च + इति त्रयः + दोषाः समासतः ॥6॥ विकृताविकृता देहं घ्नन्ति ते वर्तयन्ति च। | |
अन्वयः वायुः पित्तं कफः च इति समासतः त्रयः दोषाः (सन्ति)। ते विकृताविकृता देहं घ्नन्ति वर्तयन्ति च। | ||
1-1-7, 1-1-8 | ||
ते व्यापिनोऽपि ह्रृन्नाभ्योरधोमध्योर्ध्वसंश्रयाः॥7॥ वयोहोरात्रिभुक्तानां तेऽन्तमध्यादिगाः क्रमात्। तैर्भवेद्विषमस्तीक्ष्णो मन्दश्चाग्निः समैः समः॥8॥ |
ते व्यापिनः + अपि ह्रृन्नाभ्योः + अधोमध्योर्ध्वसंश्रयाः ॥7॥ वयोहोरात्रिभुक्तानां ते + अन्तमध्यादिगाः क्रमात्। तैः + भवेत् + विषमः + तीक्ष्णः + मन्दः + च + अग्निः समैः समः ॥8॥ | |
अन्वयः ते व्यापिनः अपि ह्रृन्नाभ्योः अधोमध्योर्ध्वसंश्रयाः। ते क्रमात् वयोहोरात्रिभुक्तानां अन्तमध्यादिगाः। तैः अग्निः विषमः तीक्ष्णः मन्दः च समैः (तैः) समः (च) भवेत्। | ||
1-1-9-1।2 | ||
कोष्ठः क्रूरो मृदुर्मध्यो मध्यः स्यात्तैः समैरपि। |
कोष्ठः क्रूरः + मृदुः + मध्यः + मध्यः स्यात् + तैः समैः + अपि। | |
अन्वयः तैः कोष्ठः क्रूरः मृदुः मध्यः स्यात्, समैः अपि (तैः) मध्यः (स्यात्)। | ||
1-1-9, 1-1-10 | ||
शुक्रार्तवस्थैर्जन्मादौ विषेणेव विषक्रिमे॥9॥ तैश्च तिस्रः प्रकृतयो हीनमध्योत्तमाः पृथक्। समधातुः समस्तासु श्रेष्ठा, निन्द्या द्विदोषजाः॥10॥ |
शुक्रार्तवस्थैः + जन्मादौ विषेण + इव विषक्रिमे ॥9॥ तैः + च तिस्रः प्रकृतयः + हीनमध्योत्तमाः पृथक्। समधातुः समस्तासु श्रेष्ठा , निन्द्याः द्विदोषजाः ॥10॥ | |
अन्वयः जन्मादौ शुक्रार्तवस्थैः तैः (शुक्रार्तवस्तेन) विषेण विषक्रिमे इव पृथक् हीनमध्योत्तमाः तिस्रः प्रकृतयः च (सन्ति)। समस्तासु (प्रकृतिषु) समधातुः श्रेष्ठा, द्विदोषजाः निन्द्याः। | ||
1-1-11, 1-1-12 | ||
तत्र रूक्षो लघुः शीतः खरः सूक्ष्मश्चलोऽनिलः। पित्तं सस्नेहतीक्ष्णोष्णं लघु विस्रं सरं द्रवम्॥11॥ स्निग्धाः शीतो गुरुर्मन्दः श्लक्ष्णोमृत्स्नः स्थिरः कफः। संसर्गः सन्निपातश्च तद्द्वित्रिक्षयकोपतः॥12॥ |
तत्र रूक्षः + लघुः शीतः खरः सूक्ष्मः + चलः + अनिलः। पित्तं सस्नेहतीक्ष्णोष्णं लघु विस्रं सरं द्रवम् ॥11॥ स्निग्धाः शीतः + गुरुः + मन्दः श्लक्ष्णः मृत्स्नः स्थिरः कफः। संसर्गः सन्निपातः + च तद्द्वित्रिक्षयकोपतः ॥12॥ | |
अन्वयः तत्र अनिलः रूक्षः लघुः शीतः खरः सूक्ष्मः चलः, पित्तं सस्नेहतीक्ष्णोष्णं लघु विस्रं सरं द्रवम्, कफः स्निग्धाः शीतः गुरुः मन्दः श्लक्ष्णः मृत्स्नः स्थिरः (च भवति)। संसर्गः सन्निपातः+च तद्द्वित्रिक्षयकोपतः (जायते)। | ||
1-1-13 | ||
रसाऽसृङ्मांसमेदोऽस्थिमज्जशुक्राणि धातवः। सप्त दूष्याः मलाः मूत्रशकृत्स्वेदादयोऽपि च॥13॥ |
रसाऽसृङ्मांसमेदोऽस्थिमज्जशुक्राणि धातवः। सप्त दूष्याः मलाः मूत्रशकृत्स्वेदादयः + अपि च ॥13॥ | |
अन्वयः रसाऽसृङ्मांसमेदः अस्थिमज्जशुक्राणि सप्त धातवः, दूष्याः (च) मूत्रशकृत्स्वेदादयः मलाः अपि च (दूष्याः)। | ||
1-1-14-1|2 | ||
वृद्धिः समानैः सर्वेषां विपरीतैर्विपर्ययः। |
वृद्धिः समानैः सर्वेषां विपरीतैः + विपर्ययः। | |
अन्वयः सर्वेषां समानैः वृद्धिः विपरीतैः विपर्ययः (च भवति)। | ||
1-1-14, 1-1-15-1|2 | ||
रसाः स्वाद्वम्ललवणतिक्तोषणकषायकाः॥14॥ षड्, द्रव्यमाश्रितास्ते च यथापूर्वं बलावहाः। |
रसाः स्वाद्वम्ललवणतिक्तोषणकषायकाः ॥14॥ षट् + , द्रव्यम् + आश्रिताः + ते च यथापूर्वं बलावहाः। | |
अन्वयः स्वाद्वम्ललवणतिक्तोषणकषायकाः षट् रसाः, द्रव्यम् आश्रिताः (सन्ति) ते यथापूर्वं बलावहाः च। | ||
1-1-15, 1-1-16-1|2 | ||
तत्राऽऽद्या मारुतं घ्नन्ति त्रयस्तिक्तादयः कफम्॥15 कषायतिक्तमधुराः पित्तमन्ये तु कुर्वते। |
तत्र + आद्या मारुतं घ्नन्ति त्रयः + तिक्तादयः कफम्॥ कषायतिक्तमधुराः पित्तम् + अन्ये तु कुर्वते। | |
अन्वयः तत्र आद्या त्रयः मारुतं घ्नन्ति, अन्ये तु (मारुतं) कुर्वते, तिक्तादयः (त्रयः) कफम् (घ्नन्ति), कषायतिक्तमधुराः पित्तम् (घ्नन्ति)। | ||
1-1-16 | ||
शमनं कोपनं स्वस्थहितं द्रव्यमिति त्रिधा॥16॥ |
शमनं कोपनं स्वस्थहितं द्रव्यम् + इति त्रिधा ॥16॥ | |
अन्वयः शमनं कोपनं स्वस्थहितं इति द्रव्यम् त्रिधा (भवति)। | ||
1-1-17-1|2 | ||
उष्णशीतगुणोत्कर्षात्तत्र वीर्यं द्विधा स्मृतम्। |
उष्णशीतगुणोत्कर्षात् + तत्र वीर्यं द्विधा स्मृतम्। | |
अन्वयः तत्र वीर्यं उष्णशीतगुणोत्कर्षात् द्विधा स्मृतम्। | ||
1-1-17 | ||
त्रिधा विपाको द्रव्यस्य स्वाद्वम्लकटुकात्मकः॥17॥ |
त्रिधा विपाकः + द्रव्यस्य स्वाद्वम्लकटुकात्मकः ॥17॥ | |
अन्वयः द्रव्यस्य स्वाद्वम्लकटुकात्मकः त्रिधा विपाकः (अस्ति)। | ||
1-1-18 | ||
गुरुमन्दहिमस्निग्धश्लक्ष्णसान्द्रमृदुस्थिराः। गुणाः ससूक्ष्मविशदा विंशतिः सविपर्ययाः॥18॥ |
गुरुमन्दहिमस्निग्धश्लक्ष्णसान्द्रमृदुस्थिराः। गुणाः ससूक्ष्मविशदा विंशतिः सविपर्ययाः ॥18॥ | |
अन्वयः सविपर्ययाः गुरु-मन्द-हिम-स्निग्ध-श्लक्ष्ण-सान्द्र-मृदु-स्थिराः ससूक्ष्म-विशदा विंशतिः गुणाः (सन्ति)। | ||
1-1-19 | ||
कालार्थकर्मणां योगो हीनमिथ्याSतिऽमात्रकः। सम्यग्योगश्च विज्ञेयो रोगाऽऽरोग्यैककारणम्॥19॥ |
कालार्थकर्मणां योगः + हीनमिथ्याऽतिमात्रकः। सम्यक् + योगः + च विज्ञेयः + रोगाऽऽरोग्यैककारणम् ॥19॥ | |
अन्वयः कालार्थकर्मणां हीन-मिथ्याऽतिमात्रकः योगः सम्यक् योगः च रोगाऽऽरोग्यैककारणं विज्ञेयः। | ||
1-1-20-1|2 | ||
रोगस्तु दोषवैषम्यं, दोषसाम्यमरोगता। |
रोगः + तु दोषवैषम्यं , दोषसाम्यम् + अरोगता। | |
अन्वयः रोगः तु दोषवैषम्यं, अरोगता दोषसाम्यम् (च भवति)। | ||
1-1-20- | ||
निजागन्तुविभागेन तत्र रोगा द्विधा स्मृताः॥20॥ |
निजागन्तुविभागेन तत्र रोगाः + द्विधा स्मृताः ॥20॥ | |
अन्वयः तत्र रोगाः निजागन्तुविभागेन द्विधा स्मृताः। | ||
1-1-21 | ||
तेषां कायमनोभेदादधिष्ठानमपि द्विधा। रजस्तमश्च मनसो द्वौ च दोषावुदाहृतौ॥21॥ |
तेषां कायमनोभेदात् + अधिष्ठानम् + अपि द्विधा। रजः + तमः + च मनसः + द्वौ च दोषौ + उदाहृतौ ॥21॥ | |
अन्वयः तेषां अधिष्ठानम् अपि कायमनोभेदात् द्विधा (भवति)। रजः तमः च मनसः द्वौ दोषौ उदाहृतौ च। | ||
1-1-22 | ||
दर्शनस्पर्शनप्रश्नैः परीक्षेत च रोगिणम्। रोगं निदानप्राग्रूपलक्षणोपशयाऽऽप्तिभिः॥22॥ |
दर्शनस्पर्शनप्रश्नैः परीक्षेत च रोगिणम्। रोगं निदानप्राग्रूपलक्षणोपशयाऽऽप्तिभिः ॥22॥ | |
अन्वयः दर्शनस्पर्शनप्रश्नैः रोगिणम् निदान-प्राग्रूप-लक्षणोपशयाऽऽप्तिभिः रोगं च परीक्षेत। | ||
1-1-23-1|2 | ||
भूमिदेहप्रभेदेन देशमाहुरिह द्विधाः। |
भूमिदेहप्रभेदेन देशम् + आहुः + इह द्विधाः। | |
अन्वयः भूमिदेहप्रभेदेन इह देशम् द्विधाः आहुः। | ||
1-1-23, 1-1-24-1|2 | ||
जाङ्गलं वातभूयिष्ठमनूपं तु कफोल्वणम्॥23॥ साधारणं सममलं त्रिधा भूदेशमादिशेत्। |
जाङ्गलं वातभूयिष्ठम् + अनूपं तु कफोल्वणम् ॥23॥ साधारणं सममलं त्रिधा भूदेशम् + आदिशेत्। | |
अन्वयः जाङ्गलं वातभूयिष्ठम्, अनूपं तु कफोल्वणम्, साधारणं सममलं (इति) भूदेशम् त्रिधा आदिशेत्। | ||
1-1-24 | ||
क्षणादिर्व्याध्यवस्था च कालो भेषजयोगकृत्॥24॥ |
क्षणादिः + व्याध्यवस्था च कालः + भेषजयोगकृत् ॥24॥ | |
अन्वयः क्षणादिः व्याध्यवस्था च भेषजयोगकृत् कालः अस्ति। | ||
1-1-25-1|2 | ||
शोधनं शमनं चेति समासादौषधं द्विधा। |
शोधनं शमनं च + इति समासात् + औषधं द्विधा। | |
अन्वयः शोधनं शमनं च इति समासात् औषधं द्विधा (भवति)। | ||
1-1-25, 1-1-26-1|2 | ||
शरीरजानां दोषाणां क्रमेण 'परमौषधम्'॥25॥ वस्तिर्विरेको वमनं तथा तैलं घृतं मधु। |
शरीरजानां दोषाणां क्रमेण 'परमौषधम्' ॥25॥ वस्तिः + विरेकः + वमनं तथा तैलं घृतं मधु। | |
अन्वयः शरीरजानां दोषाणां क्रमेण वस्तिः विरेकः वमनं तथा तैलं घृतं मधु (च) 'परमौषधम्' (भवति)। | ||
1-1-26 | ||
धीधैर्यात्मादिविज्ञानं 'मनोदोषौषधं' परम्॥26॥ |
धीधैर्यात्मादिविज्ञानं 'मनोदोषौषधं' परम् ॥26॥ | |
अन्वयः धीधैर्यात्मादिविज्ञानं परं 'मनोदोषौषधं' (भवति)। | ||
1-1-27 | ||
भिषकग् द्रव्याण्युपस्थाता रोगी पादचतुष्टयम्। चिकित्सितस्य निर्दिष्टं, प्रत्येकं तच्चतुर्गुणम्॥27॥ |
भिषक् + द्रव्याणि + उपस्थाता रोगी पादचतुष्टयम्। चिकित्सितस्य निर्दिष्टं , प्रत्येकं तत् + चतुर्गुणम् ॥27॥ | |
अन्वयः भिषक् द्रव्याणि उपस्थाता रोगी (इति) पादचतुष्टयं चिकित्सितस्य निर्दिष्टं, तत् प्रत्येकं चतुर्गुणम् (भवति)॥27॥ | ||
1-1-28, 1-1-29 | ||
दक्षस्तीर्थात्तशास्त्रार्थो दृष्टकर्मा शुचिर्भिषक्। बहुकल्पं बहुगुणं सम्पन्नं योग्यमौषधम्॥28॥ अनुरक्तः शुचिर्दक्षो बुद्धिमान् परिचारकः। आढ्यो रोगी भिषग्वश्यो ज्ञापकः सत्त्ववानपि॥29॥ |
दक्षः + तीर्थात्तशास्त्रार्थः + दृष्टकर्मा शुचिः + भिषक्। बहुकल्पं बहुगुणं सम्पन्नं योग्यम् + औषधम् ॥28॥ अनुरक्तः शुचिः + दक्षः + बुद्धिमान् परिचारकः। आढ्यः + रोगी भिषग्वश्यः + ज्ञापकः सत्त्ववान् + अपि ॥29॥ | |
अन्वयः भिषक् दक्षः तीर्थात्तशास्रार्थः दृष्टकर्मा शुचिः, औषधम् बहुकल्पं बहुगुणं सम्पन्नं योग्यम्, परिचारकः अनुरक्तः शुचिः दक्षः बुद्धिमान्, रोगी आढ्यः भिषग्वश्यः ज्ञापकः सत्त्ववान् अपि (च भवेत्)।। | ||
1-1-30, 1-1-31 | ||
सर्वौषधक्षमे देहे यूनः पुंसो जितात्मनः। अमर्मगोऽल्पहेत्वग्ररूपरूपोऽनुपद्रवः॥30॥ अतुल्यदूष्यदेशर्तुप्रकृतिः पादसम्पदि। ग्रहेष्वनुगुणेष्वेकदोषमार्गो नवः 'सुखः'॥31॥ |
सर्वौषधक्षमे देहे यूनः पुंसः + जितात्मनः। अमर्मगः + अल्पहेत्वग्ररूपरूपः + अनुपद्रवः ॥30॥ अतुल्यदूष्यदेशर्तुप्रकृतिः पादसम्पदि। ग्रहेषु + अनुगुणेषु + एकदोषमार्गः + नवः 'सुखः' ॥31॥ | |
अन्वयः सर्वौषधक्षमे देहे यूनः पुंसः जितात्मनः अमर्मगः अल्पहेत्वग्ररूपरूपः अनुपद्रवः अतुल्यदूष्यदेशर्तुप्रकृतिः पादसम्पदि (सति) ग्रहेषु अनुगुणेषु (सत्सु) एकदोषमार्गः नवः (गदः) 'सुखः' भवति। | ||
1-1-32 | ||
शस्रादिसाधनः कृच्छ्रः सङ्करे च ततो गदः। शेषत्वादायुषो 'याप्यः' पथ्याभ्यासाद्विपर्यये॥32॥ |
शस्रादिसाधनः कृच्छ्रः सङ्करे च ततः + गदः। शेषत्वात् + आयुषः + 'याप्यः' पथ्याभ्यासात् + विपर्यये ॥32॥ | |
अन्वयः शस्रादिसाधनः ततः सङ्करे (जातः) च गदः कृच्छ्रः, विपर्यये आयुषः शेषत्वात् पथ्याभ्यासात् 'याप्यः'। | ||
1-1-33 | ||
अनुपक्रम एव स्यात्स्थितोऽत्यन्तविपर्यये। औत्सुक्यमोहारतिकृद् दृष्टरिष्टोऽक्षनाशनः॥33॥ |
अनुपक्रमः + एव स्यात् + स्थितः + अत्यन्तविपर्यये। औत्सुक्यमोहाऽरतिकृत् + दृष्टरिष्टः + अक्षनाशनः ॥33॥ | |
अन्वयः अत्यन्तविपर्यये स्थितः औत्सुक्यमोहाऽरतिकृत् दृष्टरिष्टः अक्षनाशनः अनुपक्रमः एव स्यात्। | ||
1-1-34, 1-1-35-1|2 | ||
त्यजेदार्तं भिषग्भूपैर्द्विष्टं तेषां द्विषं द्विषम्। हीनोपकरणं व्यग्रमविधेयं गतायुषम्॥34॥ चण्डं शोकातुरं भीरुं कृतघ्नं वैद्यमानिनम्। |
त्यजेत् + आर्तं भिषग्भूपैः + द्विष्टं तेषां द्विषं द्विषम्। हीनोपकरणं व्यग्रम् + अविधेयं गतायुषम् ॥34॥ चण्डं शोकातुरं भीरुं कृतघ्नं वैद्यमानिनम्। | |
अन्वयः भूपैः द्विष्टं, तेषां द्विषं, द्विषं, हीनोपकरणं, व्यग्रम्, अविधेयं, गतायुषम्, चण्डं, शोकातुरं, भीरुं, कृतघ्नं, वैद्यमानिनम् आर्तं भिषग् त्यजेत्। | ||
1-1-35 | ||
तन्त्रस्यास्य परं चातो वक्ष्यतेऽध्यायसङ्ग्रहः॥35॥ |
तन्त्रस्य + अस्य परं च + अतः + वक्ष्यते + अध्यायसङ्ग्रहः ॥35॥ | |
अन्वयः अतः परं अस्य तन्त्रस्य अध्यायसङ्ग्रहः च वक्ष्यते। | ||
1-1-36, 1-1-37, 1-1-38, 1-1-39-1|2 | ||
आयुष्कामदिनर्त्वीहारोगाऽनुत्पादनद्रवाः। अन्नज्ञानाऽन्नसंरक्षामात्राद्रव्यरसाश्रयाः॥36॥ दोषादिज्ञानतद्भेदतच्चिकित्साद्युपक्रमाः। शुद्ध्यादिस्नेहनस्वेदरेकाऽऽस्थापननावनम्॥37॥ धूमगण्डूषदृक्सेकतृप्तियन्त्रकशस्त्रकम्। शिराविधिः शल्यविधिः शस्त्रक्षाराग्निकर्मिकौ॥38॥ सूत्रस्थानमिमेऽध्यायास्त्रिंशत्........ |
आयुष्कामदिनर्त्वीहारोगाऽनुत्पादनद्रवाः। अन्नज्ञानाऽन्नसंरक्षामात्राद्रव्यरसाश्रयाः ॥36॥ दोषादिज्ञानतद्भेदतच्चिकित्साद्युपक्रमाः। शुद्ध्यादिस्नेहनस्वेदरेकाऽऽस्थापननावनम् ॥37॥ धूमगण्डूषदृक्सेकतृप्तियन्त्रकशस्त्रकम्। शिराविधिः शल्यविधिः शस्त्रक्षाराग्निकर्मिकौ ॥38॥ सूत्रस्थानम् + इमे + अध्यायाः त्रिंशत् ...... | |
अन्वयः आयुष्कामदिनर्त्वीहारोगाऽनुत्पादनद्रवाः, अन्नज्ञानाऽन्नसंरक्षामात्राद्रव्यरसाश्रयाः, दोषादिज्ञानतद्भेदतच्चिकित्साद्युपक्रमाः, शुद्ध्यादिस्नेहनस्वेदरेकाऽऽस्थापननावनम्, धूमगण्डूषदृक्सेकतृप्तियन्त्रकशस्त्रकम्, शिराविधिः, शल्यविधिः, शस्त्रक्षाराग्निकर्मिकौ, इमे त्रिंशत् अध्यायाः सूत्रस्थानम्। | ||
1-1-39, 40-1-1|2 | ||
................ शरीरमुच्यते। गर्भावक्रन्तितद्व्यापदङ्गमर्मविभागिकम्॥39॥ विकृतिर्दूतजं षष्ठं........... |
............... शरीरम् + उच्यते। गर्भावक्रन्तितद्व्यापदङ्गमर्मविभागिकम् ॥39॥ विकृतिः + दूतजं षष्ठं ........... | |
अन्वयः गर्भावक्रन्तितद्व्यापदङ्गमर्मविभागिकम् विकृतिर्दूतजं च षष्ठं शरीरम् उच्यते। | ||
1-1-40, 1-1-41 | ||
................... निदानं सार्वरोगिकम्। ज्वारासृक् श्वासयक्ष्मादिमदाद्यर्शोऽतिसारिणाम्॥40॥ मूत्राघातप्रमेहाणां विद्रध्याद्युदरस्य च पाण्डुकुष्ठानिलार्तानां वातास्रस्य च 'षोडश'॥41॥ |
.................... निदानं सार्वरोगिकम्। ज्वारासृक्श्वासयक्ष्मादिमदाद्यर्शोऽतिसारिणाम् ॥40॥ मूत्राघातप्रमेहाणां विद्रध्याद्युदरस्य च पाण्डुकुष्ठानिलार्तानां वातास्रस्य च 'षोडश' ॥41॥ | |
अन्वयः सार्वरोगिकम् ज्वारासृक्श्वासयक्ष्मादिमदाद्यर्शः अतिसारिणाम् मूत्राघातप्रमेहाणां विद्रध्याद्युदरस्य च पाण्डुकुष्ठानिलार्तानां षोडश वातास्रस्य च निदानम्। | ||
1-1-42, 1-1-43, 1-1-44-1|2 | ||
चिकित्सितं ज्वरे रक्ते कासे श्वासे च यक्ष्मणि। वमौ मदात्ययेऽर्शःसु विशि द्वौ द्वौ च मूत्रिते॥42॥ विद्रधौ गुल्म्ऽअजठरपाण्डुशोफविसर्पिषु। कुष्ठश्वित्रानिलव्याधिवातास्रेषु चिकित्सितम्॥43॥ द्वाविंशतिरिमेऽध्यायाः........... |
चिकित्सितं ज्वरे रक्ते कासे श्वासे च यक्ष्मणि। वमौ मदात्यये + अर्शःसु विशि द्वौ द्वौ च मूत्रिते ॥42॥ विद्रधौ गुल्म़जठरपाण्डुशोफविसर्पिषु। कुष्ठश्वित्रानिलव्याधिवातास्रेषु चिकित्सितम् ॥43॥ द्वाविंशतिः + इमे + अध्यायाः ............. | |
अन्वयः ज्वरे रक्ते कासे श्वासे च यक्ष्मणि वमौ मदात्ययेऽर्शःसु विशि द्वौ मूत्रिते द्वौ च विद्रधौ गुल्म़जठरपाण्डुशोफविसर्पिषु कुष्ठश्वित्रानिलव्याधिवातास्रेषु चिकित्सितम् इमे द्वाविंशतिः अध्यायाः चिकित्सितम्। | ||
1-1-44, 1-1-45-1|2 | ||
............... कल्पसिद्धिरतः परम्। कल्पो वमेर्विरेकस्य तत्सिद्धिर्बस्तिकल्पना॥44॥ सिद्धिर्बस्त्यापदां, षष्ठो द्रव्यकल्पः....... |
............... कल्पसिद्धिः + अतः परम्। कल्पः + वमेः + विरेकस्य तत्सिद्धिः + बस्तिकल्पना ॥44॥ सिद्धिः + बस्त्यापदां , षष्ठः + द्रव्यकल्पः ....... | |
अन्वयः अतः परम् कल्पसिद्धिः (भवति) वमेः विरेकस्य कल्पः तत्सिद्धिः, बस्तिकल्पना बस्त्यापदां सिद्धिः, षष्ठः द्रव्यकल्पः। | ||
1-1-45-1|2, 1-1-46, 1-1-47, 1-1-48 | ||
.................... अत उत्तरम्। बालोपचारे तद्व्याधौ तद्ग्रहे, द्वौ च भूतगे॥45॥ उन्मादेऽथ स्मृतिभ्रंशे, द्वौ द्वौ वर्त्मसु सन्धिषु। दृक्तमोलिङ्गनाशेषु त्रयो, द्वौ द्वौ च सर्वगे॥46॥ कर्णनासामुखशिरोव्रणे, भङ्गे भगन्दरे। ग्रन्थ्यादौ क्षुद्ररोगेषु गुह्यरोगे पृथग्द्वयम्॥47॥ विषे भुजङ्गे कीटेषु मूषकेषु रसायने। चत्वारिंशोऽनपत्यानामध्यायो बीजपोषणः॥48॥ |
................. अतः + उत्तरम्। बालोपचारे तद्व्याधौ तद्ग्रहे , द्वौ च भूतगे ॥45॥ उन्मादे + अथ स्मृतिभ्रंशे , द्वौ द्वौ वर्त्मसु सन्धिषु। दृक्तमोलिङ्गनाशेषु त्रयः + , द्वौ द्वौ च सर्वगे ॥46॥ कर्णनासामुखशिरोव्रणे , भङ्गे भगन्दरे। ग्रन्थ्यादौ क्षुद्ररोगेषु गुह्यरोगे पृथक् + द्वयम् ॥47॥ विषे भुजङ्गे कीटेषु मूषकेषु रसायने। चत्वारिंशः + अनपत्यानाम् + अध्यायः + बीजपोषणः ॥48॥ | |
अन्वयः अतः उत्तरम् (भवति) बालोपचारे तद्व्याधौ तद्ग्रहे, भूतगे द्वौ च उन्मादे अथ स्मृतिभ्रंशे, वर्त्मसु सन्धिषु द्वौ द्वौ दृक्तमोलिङ्गनाशेषु त्रयः,सर्वगे द्वौ द्वौ च कर्णनासामुखशिरोव्रणे, भङ्गे भगन्दरे ग्रन्थ्यादौ क्षुद्ररोगेषु गुह्यरोगे पृथग्द्वयम् विषे भुजङ्गे कीटेषु मूषकेषु रसायने चत्वारिंशः अनपत्यानाम् अध्यायः बीजपोषणः। | ||
1-1-49-1|2 | ||
इत्यध्यायशतं विंशिं षड्भिः स्थानैरुदीरितम्॥49॥ |
इति + अध्यायशतं विंशिं षड्भिः स्थानैः + उदीरितम् ॥49॥ | |
अन्वयः इति अध्यायशतं विंशिं षड्भिः स्थानैः (अत्र) उदीरितम्। |