श्लोकः

  • वेदोऽङ्गवांस्तैरखिलोऽध्यगायि शस्त्राण्युपायंसत जित्वराणि ।
    ते भिन्नवृत्तीन्यपि मानसानि समं जनानां गुणिनोऽध्यवात्सुः ।।1.16।।

  • सन्धिविच्छेदः

    वेदः+अङ्गवान्+तैः+अखिलः+अध्यगायि शस्त्राणि+उपायंसत जित्वराणि
    ते भिन्नवृत्तीनि+अपि मानसानि समं जनानां गुणिनः+अध्यवात्सुः

    समासविग्रहः

  • अखिलः = <अ-खिलः>Bsmn = नास्ति खिलं अवशिष्टं यस्य सः
  • भिन्नवृत्तीनि = <भिन्न-वृत्तीनि>Bs6 = भिन्ना वृत्तिः येषां तानि

  • अन्वयः

    तैः अखिलः अङ्गवान् वेदः अध्यगायि, जित्वराणि शस्त्राणि उपायंसत । गुणिनः ते भिन्नवृत्तीनि अपि जनानां मानसानि समम् अध्यवात्सुः ।

    अन्वयचित्रम्