आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

tutu
सूत्रस्थानम्
आयुष्कामीयः अध्यायः
श्लोकःपदच्छेदः
1-1-1
रागादिरोगान् सततानुषक्तान्
अशेषकायप्रसृतानशेषान्।
औत्सुक्यमोहाऽरतिदाञ्जघान
योऽपूर्ववैद्याय नमोऽस्तु तस्मै॥1॥
रागादिरोगान् सततानुषक्तान् 
अशेषकायप्रसृतान् अशेषान्। 
औत्सुक्यमोहारतिदान् + जघान 
यः + अपूर्ववैद्याय नमः + अस्तु तस्मै ॥1॥
अन्वयः
सततानुषक्तान् अशेषकायप्रसृतान् औत्सुक्यमोहारतिदान् अशेषान् रागादिरोगान् यः जघान तस्मै अपूर्ववैद्याय नमः अस्तु।
1-1-1-2
आयुः कामयमानेन धर्मार्थसुखसाधनम्।
आयुर्वेदोपदेशेषु विधेयः परमादरः॥2॥
आयुः कामयमानेन धर्मार्थसुखसाधनम्। 
आयुर्वेदोपदेशेषु विधेयः परमादरः ॥2॥
अन्वयः
धर्मार्थसुखसाधनम् आयुः कामयमानेन आयुर्वेदोपदेशेषु परमादरः विधेयः।
1-1-1-3, 1-1-1-4-1।2
ब्रह्मा स्मृत्वाऽऽयुषो वेदं प्रजापतिमजिग्रहत्।
सोऽश्विनौ तौ सहस्राक्षं सोऽत्रिपुत्रादिकान्मुनीन्॥3॥
तेऽग्निवेशादिकांस्ते तु पृथक् तन्त्राणि तेनिरे।
ब्रह्मा स्मृत्वा + आयुषः + वेदं प्रजापतिम् + अजिग्रहत्। 
सः + अश्विनौ तौ सहस्राक्षं सः + अत्रिपुत्रादिकान् + मुनीन् ॥3॥
ते + अग्निवेशादिकान् + ते तु पृथक् तन्त्राणि तेनिरे। 
अन्वयः
ब्रह्मा आयुषः वेदं स्मृत्वा प्रजापतिम् अजिग्रहत्। सः अश्विनौ, तौ सहस्राक्षं, सः अत्रिपुत्रादिकान् मुनीन्, ते अग्निवेशादिकान्, ते तु पृथक् तन्त्राणि तेनिरे।
1-1-1-4, 1-1-1-5
तेभ्योऽतिविप्रकीर्णेभ्यः प्रायः सारतरोच्चयः॥4॥
क्रियतेऽष्टाङ्गहृदयं नातिसंक्षेपविस्तरम्।
तेभ्यः + अतिविप्रकीर्णेभ्यः प्रायः सारतरोच्चयः ॥4॥
क्रियते + अष्टाङ्गहृदयं न + अतिसंक्षेपविस्तरम्। 
अन्वयः
अतिविप्रकीर्णेभ्यः तेभ्यः प्रायः सारतरोच्चयः न अतिसंक्षेपविस्तरम् अष्टाङ्गहृदयं क्रियते।
1-1-5, 1-1-6-1।2
कायबालग्रहोर्ध्वाङ्गशल्यदंष्ट्राजरावृषान्॥5॥
अष्टावङ्गानि तस्याहुश्चिकित्सा येषु संश्रिता।
कायबालग्रहोर्ध्वाङ्गशल्यदंष्ट्राजरावृषान् ॥5॥
अष्टौ + अङ्गानि तस्य + आहुः + चिकित्सा येषु संश्रिता। 
अन्वयः
कायबालग्रहोर्ध्वाङ्गशल्यदंष्ट्राजरावृषान् अष्टौ अङ्गनि तस्य आहुः चिकित्सा येषु संश्रिता।
1-1-6, 1-1-7-1।2
वायुः पित्तं कफश्चेति त्रयो दोषाः समासतः॥6॥
विकृताविकृता देहं घ्नन्ति ते वर्तयन्ति च।
वायुः पित्तं कफः + च + इति त्रयः + दोषाः समासतः ॥6॥
विकृताविकृता देहं घ्नन्ति ते वर्तयन्ति च। 
अन्वयः
वायुः पित्तं कफः च इति समासतः त्रयः दोषाः (सन्ति)। ते विकृताविकृता देहं घ्नन्ति वर्तयन्ति च।
1-1-7, 1-1-8
ते व्यापिनोऽपि ह्रृन्नाभ्योरधोमध्योर्ध्वसंश्रयाः॥7॥
वयोहोरात्रिभुक्तानां तेऽन्तमध्यादिगाः क्रमात्।
तैर्भवेद्विषमस्तीक्ष्णो मन्दश्चाग्निः समैः समः॥8॥
ते व्यापिनः + अपि ह्रृन्नाभ्योः + अधोमध्योर्ध्वसंश्रयाः ॥7॥
वयोहोरात्रिभुक्तानां ते + अन्तमध्यादिगाः क्रमात्। 
तैः + भवेत् + विषमः + तीक्ष्णः + मन्दः + च + अग्निः समैः समः ॥8॥
अन्वयः
ते व्यापिनः अपि ह्रृन्नाभ्योः अधोमध्योर्ध्वसंश्रयाः। ते क्रमात् वयोहोरात्रिभुक्तानां अन्तमध्यादिगाः। तैः अग्निः विषमः तीक्ष्णः मन्दः च समैः (तैः) समः (च) भवेत्।
1-1-9-1।2
कोष्ठः क्रूरो मृदुर्मध्यो मध्यः स्यात्तैः समैरपि।
कोष्ठः क्रूरः + मृदुः + मध्यः + मध्यः स्यात् + तैः समैः + अपि। 
अन्वयः
तैः कोष्ठः क्रूरः मृदुः मध्यः स्यात्, समैः अपि (तैः) मध्यः (स्यात्)।
1-1-9, 1-1-10
शुक्रार्तवस्थैर्जन्मादौ विषेणेव विषक्रिमे॥9॥
तैश्च तिस्रः प्रकृतयो हीनमध्योत्तमाः पृथक्।
समधातुः समस्तासु श्रेष्ठा, निन्द्या द्विदोषजाः॥10॥
शुक्रार्तवस्थैः + जन्मादौ विषेण + इव विषक्रिमे ॥9॥
तैः + च तिस्रः प्रकृतयः + हीनमध्योत्तमाः पृथक्। 
समधातुः समस्तासु श्रेष्ठा , निन्द्याः द्विदोषजाः ॥10॥
अन्वयः
जन्मादौ शुक्रार्तवस्थैः तैः (शुक्रार्तवस्तेन) विषेण विषक्रिमे इव पृथक् हीनमध्योत्तमाः तिस्रः प्रकृतयः च (सन्ति)। समस्तासु (प्रकृतिषु) समधातुः श्रेष्ठा, द्विदोषजाः निन्द्याः।
1-1-11, 1-1-12
तत्र रूक्षो लघुः शीतः खरः सूक्ष्मश्चलोऽनिलः।
पित्तं सस्नेहतीक्ष्णोष्णं लघु विस्रं सरं द्रवम्॥11॥
स्निग्धाः शीतो गुरुर्मन्दः श्लक्ष्णोमृत्स्नः स्थिरः कफः।
संसर्गः सन्निपातश्च तद्द्वित्रिक्षयकोपतः॥12॥
तत्र रूक्षः + लघुः शीतः खरः सूक्ष्मः + चलः + अनिलः। 
पित्तं सस्नेहतीक्ष्णोष्णं लघु विस्रं सरं द्रवम् ॥11॥
स्निग्धाः शीतः + गुरुः + मन्दः श्लक्ष्णः मृत्स्नः स्थिरः कफः। 
संसर्गः सन्निपातः + च तद्द्वित्रिक्षयकोपतः ॥12॥
अन्वयः
तत्र अनिलः रूक्षः लघुः शीतः खरः सूक्ष्मः चलः, पित्तं सस्नेहतीक्ष्णोष्णं लघु विस्रं सरं द्रवम्, कफः स्निग्धाः शीतः गुरुः मन्दः श्लक्ष्णः मृत्स्नः स्थिरः (च भवति)। संसर्गः सन्निपातः+च तद्द्वित्रिक्षयकोपतः (जायते)।
1-1-13
रसाऽसृङ्मांसमेदोऽस्थिमज्जशुक्राणि धातवः।
सप्त दूष्याः मलाः मूत्रशकृत्स्वेदादयोऽपि च॥13॥
रसाऽसृङ्मांसमेदोऽस्थिमज्जशुक्राणि धातवः। 
सप्त दूष्याः मलाः मूत्रशकृत्स्वेदादयः + अपि च ॥13॥
अन्वयः
रसाऽसृङ्मांसमेदः अस्थिमज्जशुक्राणि सप्त धातवः, दूष्याः (च) मूत्रशकृत्स्वेदादयः मलाः अपि च (दूष्याः)।
1-1-14-1|2
वृद्धिः समानैः सर्वेषां विपरीतैर्विपर्ययः।
वृद्धिः समानैः सर्वेषां विपरीतैः + विपर्ययः। 
अन्वयः
सर्वेषां समानैः वृद्धिः विपरीतैः विपर्ययः (च भवति)।
1-1-14, 1-1-15-1|2
रसाः स्वाद्वम्ललवणतिक्तोषणकषायकाः॥14॥
षड्, द्रव्यमाश्रितास्ते च यथापूर्वं बलावहाः।
रसाः स्वाद्वम्ललवणतिक्तोषणकषायकाः ॥14॥
षट् + , द्रव्यम् + आश्रिताः + ते च यथापूर्वं बलावहाः। 
अन्वयः
स्वाद्वम्ललवणतिक्तोषणकषायकाः षट् रसाः, द्रव्यम् आश्रिताः (सन्ति) ते यथापूर्वं बलावहाः च।
1-1-15, 1-1-16-1|2
तत्राऽऽद्या मारुतं घ्नन्ति त्रयस्तिक्तादयः कफम्॥15
कषायतिक्तमधुराः पित्तमन्ये तु कुर्वते।
तत्र + आद्या मारुतं घ्नन्ति त्रयः + तिक्तादयः कफम्॥ 
कषायतिक्तमधुराः पित्तम् + अन्ये तु कुर्वते। 
अन्वयः
तत्र आद्या त्रयः मारुतं घ्नन्ति, अन्ये तु (मारुतं) कुर्वते, तिक्तादयः (त्रयः) कफम् (घ्नन्ति), कषायतिक्तमधुराः पित्तम् (घ्नन्ति)।
1-1-16
शमनं कोपनं स्वस्थहितं द्रव्यमिति त्रिधा॥16॥
शमनं कोपनं स्वस्थहितं द्रव्यम् + इति त्रिधा ॥16॥
अन्वयः
शमनं कोपनं स्वस्थहितं इति द्रव्यम् त्रिधा (भवति)।
1-1-17-1|2
उष्णशीतगुणोत्कर्षात्तत्र वीर्यं द्विधा स्मृतम्।
उष्णशीतगुणोत्कर्षात् + तत्र वीर्यं द्विधा स्मृतम्। 
अन्वयः
तत्र वीर्यं उष्णशीतगुणोत्कर्षात् द्विधा स्मृतम्।
1-1-17
त्रिधा विपाको द्रव्यस्य स्वाद्वम्लकटुकात्मकः॥17॥
त्रिधा विपाकः + द्रव्यस्य स्वाद्वम्लकटुकात्मकः ॥17॥
अन्वयः
द्रव्यस्य स्वाद्वम्लकटुकात्मकः त्रिधा विपाकः (अस्ति)।
1-1-18
गुरुमन्दहिमस्निग्धश्लक्ष्णसान्द्रमृदुस्थिराः।
गुणाः ससूक्ष्मविशदा विंशतिः सविपर्ययाः॥18॥
गुरुमन्दहिमस्निग्धश्लक्ष्णसान्द्रमृदुस्थिराः। 
गुणाः ससूक्ष्मविशदा विंशतिः सविपर्ययाः ॥18॥
अन्वयः
सविपर्ययाः गुरु-मन्द-हिम-स्निग्ध-श्लक्ष्ण-सान्द्र-मृदु-स्थिराः ससूक्ष्म-विशदा विंशतिः गुणाः (सन्ति)।
1-1-19
कालार्थकर्मणां योगो हीनमिथ्याSतिऽमात्रकः।
सम्यग्योगश्च विज्ञेयो रोगाऽऽरोग्यैककारणम्॥19॥
कालार्थकर्मणां योगः + हीनमिथ्याऽतिमात्रकः। 
सम्यक् + योगः + च विज्ञेयः + रोगाऽऽरोग्यैककारणम् ॥19॥
अन्वयः
कालार्थकर्मणां हीन-मिथ्याऽतिमात्रकः योगः सम्यक् योगः च रोगाऽऽरोग्यैककारणं विज्ञेयः।
1-1-20-1|2
रोगस्तु दोषवैषम्यं, दोषसाम्यमरोगता।
रोगः + तु दोषवैषम्यं , दोषसाम्यम् + अरोगता। 
अन्वयः
रोगः तु दोषवैषम्यं, अरोगता दोषसाम्यम् (च भवति)।
1-1-20-
निजागन्तुविभागेन तत्र रोगा द्विधा स्मृताः॥20॥
निजागन्तुविभागेन तत्र रोगाः + द्विधा स्मृताः ॥20॥
अन्वयः
तत्र रोगाः निजागन्तुविभागेन द्विधा स्मृताः।
1-1-21
तेषां कायमनोभेदादधिष्ठानमपि द्विधा।
रजस्तमश्च मनसो द्वौ च दोषावुदाहृतौ॥21॥
तेषां कायमनोभेदात् + अधिष्ठानम् + अपि द्विधा। 
रजः + तमः + च मनसः + द्वौ च दोषौ + उदाहृतौ ॥21॥
अन्वयः
तेषां अधिष्ठानम् अपि कायमनोभेदात् द्विधा (भवति)। रजः तमः च मनसः द्वौ दोषौ उदाहृतौ च।
1-1-22
दर्शनस्पर्शनप्रश्नैः परीक्षेत च रोगिणम्।
रोगं निदानप्राग्रूपलक्षणोपशयाऽऽप्तिभिः॥22॥
दर्शनस्पर्शनप्रश्नैः परीक्षेत च रोगिणम्। 
रोगं निदानप्राग्रूपलक्षणोपशयाऽऽप्तिभिः ॥22॥
अन्वयः
दर्शनस्पर्शनप्रश्नैः रोगिणम् निदान-प्राग्रूप-लक्षणोपशयाऽऽप्तिभिः रोगं च परीक्षेत।
1-1-23-1|2
भूमिदेहप्रभेदेन देशमाहुरिह द्विधाः।
भूमिदेहप्रभेदेन देशम् + आहुः + इह द्विधाः। 
अन्वयः
भूमिदेहप्रभेदेन इह देशम् द्विधाः आहुः।
1-1-23, 1-1-24-1|2
जाङ्गलं वातभूयिष्ठमनूपं तु कफोल्वणम्॥23॥
साधारणं सममलं त्रिधा भूदेशमादिशेत्।
जाङ्गलं वातभूयिष्ठम् + अनूपं तु कफोल्वणम् ॥23॥
साधारणं सममलं त्रिधा भूदेशम् + आदिशेत्। 
अन्वयः
जाङ्गलं वातभूयिष्ठम्, अनूपं तु कफोल्वणम्, साधारणं सममलं (इति) भूदेशम् त्रिधा आदिशेत्।
1-1-24
क्षणादिर्व्याध्यवस्था च कालो भेषजयोगकृत्॥24॥
क्षणादिः + व्याध्यवस्था च कालः + भेषजयोगकृत् ॥24॥
अन्वयः
क्षणादिः व्याध्यवस्था च भेषजयोगकृत् कालः अस्ति।
1-1-25-1|2
शोधनं शमनं चेति समासादौषधं द्विधा।
शोधनं शमनं च + इति समासात् + औषधं द्विधा। 
अन्वयः
शोधनं शमनं च इति समासात् औषधं द्विधा (भवति)।
1-1-25, 1-1-26-1|2
शरीरजानां दोषाणां क्रमेण 'परमौषधम्'॥25॥
वस्तिर्विरेको वमनं तथा तैलं घृतं मधु।
शरीरजानां दोषाणां क्रमेण 'परमौषधम्' ॥25॥
वस्तिः + विरेकः + वमनं तथा तैलं घृतं मधु। 
अन्वयः
शरीरजानां दोषाणां क्रमेण वस्तिः विरेकः वमनं तथा तैलं घृतं मधु (च) 'परमौषधम्' (भवति)।
1-1-26
धीधैर्यात्मादिविज्ञानं 'मनोदोषौषधं' परम्॥26॥
धीधैर्यात्मादिविज्ञानं 'मनोदोषौषधं' परम् ॥26॥
अन्वयः
धीधैर्यात्मादिविज्ञानं परं 'मनोदोषौषधं' (भवति)।
1-1-27
भिषकग् द्रव्याण्युपस्थाता रोगी पादचतुष्टयम्।
चिकित्सितस्य निर्दिष्टं, प्रत्येकं तच्चतुर्गुणम्॥27॥
भिषक् + द्रव्याणि + उपस्थाता रोगी पादचतुष्टयम्। 
चिकित्सितस्य निर्दिष्टं , प्रत्येकं तत् + चतुर्गुणम् ॥27॥
अन्वयः
भिषक् द्रव्याणि उपस्थाता रोगी (इति) पादचतुष्टयं चिकित्सितस्य निर्दिष्टं, तत् प्रत्येकं चतुर्गुणम् (भवति)॥27॥
1-1-28, 1-1-29
दक्षस्तीर्थात्तशास्त्रार्थो दृष्टकर्मा शुचिर्भिषक्।
बहुकल्पं बहुगुणं सम्पन्नं योग्यमौषधम्॥28॥
अनुरक्तः शुचिर्दक्षो बुद्धिमान् परिचारकः।
आढ्यो रोगी भिषग्वश्यो ज्ञापकः सत्त्ववानपि॥29॥
दक्षः + तीर्थात्तशास्त्रार्थः + दृष्टकर्मा शुचिः + भिषक्। 
बहुकल्पं बहुगुणं सम्पन्नं योग्यम् + औषधम् ॥28॥
अनुरक्तः शुचिः + दक्षः + बुद्धिमान् परिचारकः। 
आढ्यः + रोगी भिषग्वश्यः + ज्ञापकः सत्त्ववान् + अपि ॥29॥
अन्वयः
भिषक् दक्षः तीर्थात्तशास्रार्थः दृष्टकर्मा शुचिः, औषधम् बहुकल्पं बहुगुणं सम्पन्नं योग्यम्, परिचारकः अनुरक्तः शुचिः दक्षः बुद्धिमान्, रोगी आढ्यः भिषग्वश्यः ज्ञापकः सत्त्ववान् अपि (च भवेत्)।।
1-1-30, 1-1-31
सर्वौषधक्षमे देहे यूनः पुंसो जितात्मनः।
अमर्मगोऽल्पहेत्वग्ररूपरूपोऽनुपद्रवः॥30॥
अतुल्यदूष्यदेशर्तुप्रकृतिः पादसम्पदि।
ग्रहेष्वनुगुणेष्वेकदोषमार्गो नवः 'सुखः'॥31॥
सर्वौषधक्षमे देहे यूनः पुंसः + जितात्मनः। 
अमर्मगः + अल्पहेत्वग्ररूपरूपः + अनुपद्रवः ॥30॥
अतुल्यदूष्यदेशर्तुप्रकृतिः पादसम्पदि। 
ग्रहेषु + अनुगुणेषु + एकदोषमार्गः + नवः 'सुखः' ॥31॥
अन्वयः
सर्वौषधक्षमे देहे यूनः पुंसः जितात्मनः अमर्मगः अल्पहेत्वग्ररूपरूपः अनुपद्रवः अतुल्यदूष्यदेशर्तुप्रकृतिः पादसम्पदि (सति) ग्रहेषु अनुगुणेषु (सत्सु) एकदोषमार्गः नवः (गदः) 'सुखः' भवति।
1-1-32
शस्रादिसाधनः कृच्छ्रः सङ्करे च ततो गदः।
शेषत्वादायुषो 'याप्यः' पथ्याभ्यासाद्विपर्यये॥32॥
शस्रादिसाधनः कृच्छ्रः सङ्करे च ततः + गदः। 
शेषत्वात् + आयुषः + 'याप्यः' पथ्याभ्यासात् + विपर्यये ॥32॥
अन्वयः
शस्रादिसाधनः ततः सङ्करे (जातः) च गदः कृच्छ्रः, विपर्यये आयुषः शेषत्वात् पथ्याभ्यासात् 'याप्यः'।
1-1-33
अनुपक्रम एव स्यात्स्थितोऽत्यन्तविपर्यये।
औत्सुक्यमोहारतिकृद् दृष्टरिष्टोऽक्षनाशनः॥33॥
अनुपक्रमः + एव स्यात् + स्थितः + अत्यन्तविपर्यये। 
औत्सुक्यमोहाऽरतिकृत् + दृष्टरिष्टः + अक्षनाशनः ॥33॥
अन्वयः
अत्यन्तविपर्यये स्थितः औत्सुक्यमोहाऽरतिकृत् दृष्टरिष्टः अक्षनाशनः अनुपक्रमः एव स्यात्।
1-1-34, 1-1-35-1|2
त्यजेदार्तं भिषग्भूपैर्द्विष्टं तेषां द्विषं द्विषम्।
हीनोपकरणं व्यग्रमविधेयं गतायुषम्॥34॥
चण्डं शोकातुरं भीरुं कृतघ्नं वैद्यमानिनम्।
त्यजेत् + आर्तं भिषग्भूपैः + द्विष्टं तेषां द्विषं द्विषम्। 
हीनोपकरणं व्यग्रम् + अविधेयं गतायुषम् ॥34॥
चण्डं शोकातुरं भीरुं कृतघ्नं वैद्यमानिनम्। 
अन्वयः
भूपैः द्विष्टं, तेषां द्विषं, द्विषं, हीनोपकरणं, व्यग्रम्, अविधेयं, गतायुषम्, चण्डं, शोकातुरं, भीरुं, कृतघ्नं, वैद्यमानिनम् आर्तं भिषग् त्यजेत्।
1-1-35
तन्त्रस्यास्य परं चातो वक्ष्यतेऽध्यायसङ्ग्रहः॥35॥
तन्त्रस्य + अस्य परं च + अतः + वक्ष्यते + अध्यायसङ्ग्रहः ॥35॥
अन्वयः
अतः परं अस्य तन्त्रस्य अध्यायसङ्ग्रहः च वक्ष्यते।
1-1-36, 1-1-37, 1-1-38, 1-1-39-1|2
आयुष्कामदिनर्त्वीहारोगाऽनुत्पादनद्रवाः।
अन्नज्ञानाऽन्नसंरक्षामात्राद्रव्यरसाश्रयाः॥36॥
दोषादिज्ञानतद्भेदतच्चिकित्साद्युपक्रमाः।
शुद्ध्यादिस्नेहनस्वेदरेकाऽऽस्थापननावनम्॥37॥
धूमगण्डूषदृक्सेकतृप्तियन्त्रकशस्त्रकम्।
शिराविधिः शल्यविधिः शस्त्रक्षाराग्निकर्मिकौ॥38॥
सूत्रस्थानमिमेऽध्यायास्त्रिंशत्........
आयुष्कामदिनर्त्वीहारोगाऽनुत्पादनद्रवाः। 
अन्नज्ञानाऽन्नसंरक्षामात्राद्रव्यरसाश्रयाः ॥36॥
दोषादिज्ञानतद्भेदतच्चिकित्साद्युपक्रमाः। 
शुद्ध्यादिस्नेहनस्वेदरेकाऽऽस्थापननावनम् ॥37॥
धूमगण्डूषदृक्सेकतृप्तियन्त्रकशस्त्रकम्। 
शिराविधिः शल्यविधिः शस्त्रक्षाराग्निकर्मिकौ ॥38॥
सूत्रस्थानम् + इमे + अध्यायाः त्रिंशत् ...... 
अन्वयः
आयुष्कामदिनर्त्वीहारोगाऽनुत्पादनद्रवाः, अन्नज्ञानाऽन्नसंरक्षामात्राद्रव्यरसाश्रयाः, दोषादिज्ञानतद्भेदतच्चिकित्साद्युपक्रमाः, शुद्ध्यादिस्नेहनस्वेदरेकाऽऽस्थापननावनम्, धूमगण्डूषदृक्सेकतृप्तियन्त्रकशस्त्रकम्, शिराविधिः, शल्यविधिः, शस्त्रक्षाराग्निकर्मिकौ, इमे त्रिंशत् अध्यायाः सूत्रस्थानम्।
1-1-39, 40-1-1|2
................ शरीरमुच्यते।
गर्भावक्रन्तितद्व्यापदङ्गमर्मविभागिकम्॥39॥
विकृतिर्दूतजं षष्ठं...........
............... शरीरम् + उच्यते। 
गर्भावक्रन्तितद्व्यापदङ्गमर्मविभागिकम् ॥39॥
विकृतिः + दूतजं षष्ठं ........... 
अन्वयः
गर्भावक्रन्तितद्व्यापदङ्गमर्मविभागिकम् विकृतिर्दूतजं च षष्ठं शरीरम् उच्यते।
1-1-40, 1-1-41
................... निदानं सार्वरोगिकम्।
ज्वारासृक् श्वासयक्ष्मादिमदाद्यर्शोऽतिसारिणाम्॥40॥
मूत्राघातप्रमेहाणां विद्रध्याद्युदरस्य च
पाण्डुकुष्ठानिलार्तानां वातास्रस्य च 'षोडश'॥41॥
.................... निदानं सार्वरोगिकम्। 
ज्वारासृक्‌श्वासयक्ष्मादिमदाद्यर्शोऽतिसारिणाम् ॥40॥
मूत्राघातप्रमेहाणां विद्रध्याद्युदरस्य च 
पाण्डुकुष्ठानिलार्तानां वातास्रस्य च 'षोडश' ॥41॥
अन्वयः
सार्वरोगिकम् ज्वारासृक्‌श्वासयक्ष्मादिमदाद्यर्शः अतिसारिणाम् मूत्राघातप्रमेहाणां विद्रध्याद्युदरस्य च पाण्डुकुष्ठानिलार्तानां षोडश वातास्रस्य च निदानम्।
1-1-42, 1-1-43, 1-1-44-1|2
चिकित्सितं ज्वरे रक्ते कासे श्वासे च यक्ष्मणि।
वमौ मदात्ययेऽर्शःसु विशि द्वौ द्वौ च मूत्रिते॥42॥
विद्रधौ गुल्म्ऽअजठरपाण्डुशोफविसर्पिषु।
कुष्ठश्वित्रानिलव्याधिवातास्रेषु चिकित्सितम्॥43॥
द्वाविंशतिरिमेऽध्यायाः...........
चिकित्सितं ज्वरे रक्ते कासे श्वासे च यक्ष्मणि। 
वमौ मदात्यये + अर्शःसु विशि द्वौ द्वौ च मूत्रिते ॥42॥
विद्रधौ गुल्म़जठरपाण्डुशोफविसर्पिषु। 
कुष्ठश्वित्रानिलव्याधिवातास्रेषु चिकित्सितम् ॥43॥
द्वाविंशतिः + इमे + अध्यायाः ............. 
अन्वयः
ज्वरे रक्ते कासे श्वासे च यक्ष्मणि वमौ मदात्ययेऽर्शःसु विशि द्वौ मूत्रिते द्वौ च विद्रधौ गुल्म़जठरपाण्डुशोफविसर्पिषु कुष्ठश्वित्रानिलव्याधिवातास्रेषु चिकित्सितम् इमे द्वाविंशतिः अध्यायाः चिकित्सितम्।
1-1-44, 1-1-45-1|2
............... कल्पसिद्धिरतः परम्।
कल्पो वमेर्विरेकस्य तत्सिद्धिर्बस्तिकल्पना॥44॥
सिद्धिर्बस्त्यापदां, षष्ठो द्रव्यकल्पः.......
............... कल्पसिद्धिः + अतः परम्। 
कल्पः + वमेः + विरेकस्य तत्सिद्धिः + बस्तिकल्पना ॥44॥
सिद्धिः + बस्त्यापदां , षष्ठः + द्रव्यकल्पः ....... 
अन्वयः
अतः परम् कल्पसिद्धिः (भवति) वमेः विरेकस्य कल्पः तत्सिद्धिः, बस्तिकल्पना बस्त्यापदां सिद्धिः, षष्ठः द्रव्यकल्पः।
1-1-45-1|2, 1-1-46, 1-1-47, 1-1-48
.................... अत उत्तरम्।
बालोपचारे तद्व्याधौ तद्ग्रहे, द्वौ च भूतगे॥45॥
उन्मादेऽथ स्मृतिभ्रंशे, द्वौ द्वौ वर्त्मसु सन्धिषु।
दृक्तमोलिङ्गनाशेषु त्रयो, द्वौ द्वौ च सर्वगे॥46॥
कर्णनासामुखशिरोव्रणे, भङ्गे भगन्दरे।
ग्रन्थ्यादौ क्षुद्ररोगेषु गुह्यरोगे पृथग्द्वयम्॥47॥
विषे भुजङ्गे कीटेषु मूषकेषु रसायने।
चत्वारिंशोऽनपत्यानामध्यायो बीजपोषणः॥48॥
................. अतः + उत्तरम्। 
बालोपचारे तद्व्याधौ तद्ग्रहे , द्वौ च भूतगे ॥45॥
उन्मादे + अथ स्मृतिभ्रंशे , द्वौ द्वौ वर्त्मसु सन्धिषु। 
दृक्तमोलिङ्गनाशेषु त्रयः + , द्वौ द्वौ च सर्वगे ॥46॥
कर्णनासामुखशिरोव्रणे , भङ्गे भगन्दरे। 
ग्रन्थ्यादौ क्षुद्ररोगेषु गुह्यरोगे पृथक् + द्वयम् ॥47॥
विषे भुजङ्गे कीटेषु मूषकेषु रसायने। 
चत्वारिंशः + अनपत्यानाम् + अध्यायः + बीजपोषणः ॥48॥
अन्वयः
अतः उत्तरम् (भवति) बालोपचारे तद्व्याधौ तद्ग्रहे, भूतगे द्वौ च उन्मादे अथ स्मृतिभ्रंशे, वर्त्मसु सन्धिषु द्वौ द्वौ दृक्तमोलिङ्गनाशेषु त्रयः,सर्वगे द्वौ द्वौ च कर्णनासामुखशिरोव्रणे, भङ्गे भगन्दरे ग्रन्थ्यादौ क्षुद्ररोगेषु गुह्यरोगे पृथग्द्वयम् विषे भुजङ्गे कीटेषु मूषकेषु रसायने चत्वारिंशः अनपत्यानाम् अध्यायः बीजपोषणः।
1-1-49-1|2
इत्यध्यायशतं विंशिं षड्भिः स्थानैरुदीरितम्॥49॥
इति + अध्यायशतं विंशिं षड्‌भिः स्थानैः + उदीरितम् ॥49॥
अन्वयः
इति अध्यायशतं विंशिं षड्‌भिः स्थानैः (अत्र) उदीरितम्।