।।चतुर्थः कैवल्यपादः ।।
जन्मौषधिमन्त्रतपः समाधिजाः सिद्धयः ॥१॥
जात्यन्तरपरिणामः प्रकृत्यापूरात्॥२॥
निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत्॥३॥
निर्माणचित्तान्यस्मितामात्रात्॥४॥
प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥५॥
तत्र ध्यानजमनाशयम् ॥६॥
कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम् ॥७॥
ततस्तद्विपाकानुगुणानामेव अभिव्यक्ति: वासनानाम् ॥८॥
जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात्॥९॥
तासामनादित्वं चाशिषो नित्यत्वात्॥१०॥
हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावः॥११॥
अतीतानागतं स्वरूपतोस्ति अध्वभेदाद्धर्माणाम्॥१२॥
ते व्यक्तसूक्ष्माः गुणात्मानः ॥१३॥
परिणामैकत्वाद्वस्तुतत्त्वम्॥१४॥
वस्तुसाम्येऽपि चित्तभेदात्तयोर्विभक्तः पन्थाः ॥१५॥
न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात्॥१६॥
तदुपरागापेक्षत्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् ॥१७॥
सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥१८॥
न तत्स्वाभासं दृश्यत्वात्॥१९॥
एकसमये चोभयानवधारणम् ॥२०॥
चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्च ॥२१॥
चितेरप्रतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम् ॥२२॥
द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ॥२३॥
तदसंख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात्॥२४॥
विशेषदर्शिन आत्मभावभावनाविनिवृत्तिः॥२५॥
तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥२६॥
तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥२७॥
हानमेषां क्लेशवदुक्तम्॥२८॥
प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः॥२९॥
ततः क्लेशकर्मनिवृत्तिः ॥३०॥
तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ज्ञेयमल्पम्॥३१॥
ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् ॥३२॥
क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः ॥३३॥
पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति ॥३४॥
इति पतञ्जलिविरचिते योगसूत्रे चतुर्थः कैवल्यपादः ।।
॥ इति पातञ्जलयोगसूत्राणि ॥