।।तृतीयः विभूतिपादः ।।


देशबन्धश्चित्तस्य धारणा ॥१॥

तत्र प्रत्ययैकतानता ध्यानम् ॥२॥

तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ॥३॥

त्रयमेकत्र संयमः ॥४॥

तज्जयात् प्रज्ञालोकः ॥५॥

तस्य भूमिषु विनियोगः ॥६॥

त्रयमन्तरङ्गं पूर्वेभ्यः ॥७॥

तदपि बहिरङ्गं निर्बीजस्य ॥८॥

व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः ॥९॥

तस्य प्रशान्तवाहिता संस्कारात्॥१०॥

सर्वार्थतैकाग्रतयोः क्षयादयौ चित्तस्य समाधिपरिणामः ॥११॥

ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥१२॥

एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामाः व्याख्याताः ॥१३॥

शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥१४॥

क्रमान्यत्वं परिणामअन्यत्वे हेतुः ॥१५॥

परिणामत्रयसंयमादतीतानागतज्ञानम् ॥१६॥

शब्दार्थप्रत्ययानामितरेतराध्यासात्सङ्करस्तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानम् ॥१७॥

संस्कारसाक्षत्करणात्पूर्वजातिज्ञानम् ॥१८॥

प्रत्ययस्य परचित्तज्ञानम् ॥१९॥

न च तत् सालम्बनं, तस्याविषयीभूतत्वात्॥२०॥

कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासम्प्रयोगे अन्तर्धानम् ॥२१॥

सोपक्रमं निरुपक्रमं च कर्म, तत्संयमात् अपरान्तज्ञानम्, अरिष्टेभ्यः वा ॥२२॥

मैत्र्यादिषु बलानि ॥२३॥

बलेषु हस्तिबलादीनि ॥२४॥

प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ॥२५॥

भुवनज्ञानं सूर्ये संयमात्॥२६॥

चन्द्रे ताराव्यूहज्ञानम् ॥२७॥

ध्रुवे तद्गतिज्ञानम् ॥२८॥

नाभिचक्रे कायव्यूहज्ञानम् ॥२९॥

कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥३०॥

कूर्मनाड्यां स्थैर्यम् ॥३१॥

मूर्धज्योतिषि सिद्धदर्शनम् ॥३२॥

प्रातिभाद्वा सर्वम् ॥३३॥

हृदये चित्तसंवित्॥३४॥

सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थात्स्वार्थसंयमात्पुरुषज्ञानम् ॥३५॥

ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥३६॥

ते समाधावुपसर्गाः व्युत्थाने सिद्धयः ॥३७॥

बन्धकारणशैथिल्यात्प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः ॥३८॥

उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥३९॥

समानजयाज्ज्वलनम् ॥४०॥

श्रोत्राकाशयोः सम्बन्धसंयमाद्दिव्यं श्रोत्रम् ॥४१॥

कायाकाशयोः सम्बन्धसंयमाल्लघुतूलसमापत्तेश्चाकाशगमनम् ॥४२॥

बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः ॥४३॥

स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमात् भूतजयः ॥४४॥

ततो अणिमादिप्रादुर्भावः कायसम्पत्तद्धर्मानभिघातश्च ॥४५॥

रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत्॥४६॥

ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः ॥४७॥

ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥४८॥

सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च ॥४९॥

तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥५०॥

स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनः अनिष्टप्रसङ्गात्॥५१॥

क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ॥५२॥

जातिलक्षणदेशैरन्यतानवच्छेदात्तुल्ययोस्ततः प्रतिपत्तिः ॥५३॥

तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम् ॥५४॥

सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् ॥५५॥

इति पतञ्जलिविरचिते योगसूत्रे तृतीयो विभूतिपादः।।